________________
38 प्रमाणरीक्षा
[न्यायमञ्जरी धारणाद्युपकार भेदपर्या लोचनया भवत्वधिकरणादिकारकान्तरव्यवहारः। प्रमितो तु मनोदीपचक्षुरादेः न लक्ष्यते विशेष इति 'तत्सर्व' करणत्वेन सम्मतम् ॥
कस्तेषु तमबर्थ इति चेत् ? अस्ति कश्चित्--यदयं लोकः 'अहं मया जानामि' 'घटेन घटं जानामि' इति न कर्तृकर्मणी विस्मृत्यापि करणत्वेन व्यपदिशति, नयनमनोदीपशब्दलिङ्गानि तु. तथा व्यपदिशति ; सोऽयमेषां पश्यति कर्तृकर्मवैलक्षण्यं चक्षुरादीनाम्। तद्वै लक्षण्यमेव च तेषामतिशय इति तदयमिह प्रमाणं, प्रमाता, प्रमेयं, प्रमितिरिति चतुर्वर्ग' एव व्यवहारः परिसमाप्यते। तस्मात् कर्तृकर्मविलक्षणा संशयविपर्ययरहितार्थबोधविधायिनी बोधाबोधस्वभावा सामग्री प्रमाणमिति युक्तम् ॥
[बौद्धसम्मतप्रमाणस्वरूपनिराकरणम् ] य तु बोधस्यैव प्रमाणत्वमाचक्षते-न सूक्ष्म दर्शिनस्ते'। बोधः खलु प्रमाणस्य फलं, न साक्षात्प्रमाणम्। करणार्थाभिधानो हि प्रमाणशब्दः, ममीयते अनेनेति प्रमाणम् । प्रमीयत इति कोऽर्थः ? प्रमा जन्यत इति । प्रमाणादवगच्छाम इति वदन्तो लौकिकाः ज्ञानरूपक्रियायाम् । यद्यपि ज्ञानं गुणः, अथापि जानामीत्यादिधातुवाच्यत्वात् क्रियात्वोक्तिः। ज्ञानस्थले हि आत्मन एवोपादानत्वेन, फलित्वेन, अधिकरणत्वेन च कर्मकरणकारकव्यतिरिक्तसर्वकारकत्वमात्मन एव ।
तेषु-मनोदीपचक्षुरादिषु । . कर्तृकर्मकारकातिरिक्तत्वात् करणस्य, सजातीयवस्त्वपेक्षयैव तमबर्थस्योपपादनीयत्वादित्यर्थः । अनुभवसाक्षिकोऽयं विशेष इत्यभिप्रायेणाह- यदयमित्यादि ॥
बोधस्यैवेति । प्रमा प्रमाणमिति पर्यायतया लोके प्रयोगात् ज्ञानस्य प्रामाण्यमित्यादिव्यवहाराञ्च ज्ञानरूपमेव प्रमाणम् । तथा च बोधाबोधस्वभावेत्यसङ्गतमित्याशयः । उत्तरत्र प्रमाया अपि प्रमाणपदवाच्यत्वकथनादत्र साक्षादित्युक्तम्। अधिकमुत्तरत्र स्पष्टीभविष्यति ॥
सर्व-ख.
वर्गेणैव-ख.
दर्शनास्ते-ख.