________________
प्रमाणस्वरूपे एकदेशिमतम्
[केषाञ्चिदेव करणत्वव्यवहारे हेतुः ।
यस्तु दीपेन्द्रियाणां तृतीयानिर्देशः, स फलोपजननाविनाभाविस्वभावत्वाख्यसामग्रीसरूप समारोपणनिबन्धनः । अन्यत्रापि च तद्रूपसमारोपेण स्थाल्या 'पचतीति व्यपदेशो हृदयते एव । तस्मादन्तर्गतकारकापेक्षया लब्धकरणभावा (सामग्री प्रमाणम् ॥
आह्निकम् १]
37
[ प्रकारान्तरेण करणस्वरूपनिरूपणम् ]
• अपरे पुनराचक्षते सामग्री नाम समुदितानि कारकाणि । तेषां द्वैरूप्यमहृदयङ्गमम् । 2 'अथ च तान्येव' पृथगवस्थितानि कर्मादिभावं भजन्ते, अथ च 'तान्येव समुदितानि' करणी भवन्तीति कोऽयं नयः ? तस्मात् कर्तृकर्मव्यतिरिक्तम् अव्यभिचारादिविशेषणकार्थप्रमाजनकं कारकं करणमुच्यते । तदेव तृतीयया व्यपदिशन्तिदीपेन पश्यामि चक्षुषा निरीक्षे, लिङ्गेन बुद्धथे, शब्देन जानामि, मनसा निश्चिनोमीति ।
ननु त्रीण्येव कारकाण्यस्मिन् पक्षे भवेयुः - ज्ञानक्रियायां तावत् एवमेवैतत् यथा भवानाह । पाकादिक्रियासु क्रियाश्रय
पश्यामि इत्यपि व्यवहारः कुतो न ? इत्याशङ्कय परिहरति — यस्त्वित्यादि । फलोपजननाविनाभावित्वाख्यः तमबर्थः यः अतिशय तं दीपादावभ्यर्हिततमत्वात् भारोप्य लोके दीपेन पश्यामीत्यादिव्यपदेशः ; विषये सत्यप्यन्धकारादौ प्रत्यक्षानुत्पस्या तन्त्रालोकस्याभ्यर्हिततमत्वात् । एवं भालोके सत्यपि चक्षुषो निमीलने न प्रत्यक्षमिति चक्षुषोऽभ्यर्हिततमत्वप्रतीत्या चक्षुषा पश्यामीति व्यवहारः । अत एव स्थाल्यां पचतीत्यत्र स्थाली सौष्टवादिविवक्षायां सत्यां स्थाल्या पंचति, स्थाली पचति इात, काष्ठसौष्ठवविवक्षायां काष्ठं पचतीत्यादिश्च प्रयोगः । . अतो न दोष इति परिहाराशयः ॥
तेषां समुदायाभिन्नानां समुदायिनाम् । द्वैरूप्यमेवोपपादयति - अथ चेति । अथ चेति विरोधद्योतकम् ||
त्रीण्येवेति । अपादानादीनामपि वर्तृकारकेणैव क्रोडीकारापत्तेरित्यर्थः । तथा च कर्तृकर्म करणमिति त्रीण्येव कारकाणि भवेयुरिति । ज्ञानक्रियायां -
' पचन्तीति-क. 2 अथ तान्येव - क. अथ च तानि - ख.
3 समुदितानि - क.