SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रमाणपरीक्षा न्यायमञ्जरी पृथगवस्थितेषु हि 'स्थालीजलज्वलन'तण्डुलादिषु न समग्रताप्रत्ययः; समुदितेषु तु भवतीत्यतः तन्तुपटलपरिघटित पटाद्यवयविवत् कारककलापनिष्पाद्यद्रव्यान्तगभावेऽपि समुदायात्मिका सामग्री विद्यत एवेति समुदाय्यपेक्षया करणतां प्रतिपद्यते। तस्मान्न परिचोदनीयमिदं कस्मिन् कर्मणि सामग्री करणमिति । समुदायिनां सामग्रयवस्थायामपि स्वरूपानपायात् समुदायिविशेषे कर्मणि सामग्री करणम् । अत एव प्रमितेर्न निरालम्बनत्वम् ॥ एतेन 'प्रमात्रादिः पृथगुपदर्शित इति विधाचतुष्टयमपि समाहितम् ॥ यत्त्वभ्यधायि सामग्रयाः करणविभक्तिनिर्देशो न दृश्यत इतितत्रोच्यते-सामग्री हि संहतिः। सा हि. संहन्यमानव्यतिरेकेण न व्यवहारपदवीमवतरति तेन 'सामग्रया पश्यामीति न व्यपदेशः॥ -न तथाऽत्र, किन्तु सेनावनन्यायेन भेदव्यवहार इत्याह - तन्त्विति । द्रव्यान्तराभावेऽपि---सामग्रीरूपावयव्यन्ताराभावेऽपि। तथा च प्रत्येकविवक्षया इमे वृक्षा इति व्यवहारेऽपि बुद्धिविशेषविषयत्वकृतः इदं वनमिति यथा, तथा प्रकृतेऽपि प्रत्येकविवक्षया कर्मादि कारकतां प्रमिती भजते । समुदायापेक्षया तु सामग्रयेव प्रमितिकरणमिति भावः। समुदायिविशेषेसमुदायघटककारकविशेषे ॥ एतेन-प्रत्येकं कर्मकारकताधनपायेन । विधाचतुष्टयम् | प्रमाण, प्रमाता, प्रमेयं, प्रमितिरिति चतुष्टयम् ॥ करणविभक्तीति। सामग्रया पश्यामीति निर्देश इत्यर्थः । तेनेत्यादि। सामग्रयाख्यातिरिक्तपदार्थस्याभावेन न तथा निर्देश इति भावः ॥ . नन्वभ्युपगच्छामः-सामग्रया: प्रत्येकानतिरेकात् सामग्रथा पश्यामीति न निर्देश इति ; किन्तु- सामग्रयाः करणत्वमुक्तं, मामग्री च प्रत्येकामिन्ना। ततश्च सामग्रयन्तर्गतांनां सर्वेषामपि करणत्वं प्राप्तम् । एवञ्च चक्षुषा पश्यामीतिवत् घटेन 'घटा-ख. सामग्री-ख. 'प्रमाता-ख. __1 स्थालाज्वलनजल-ख. 5 सामग्री-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy