________________
आह्निकम् १]
सामग्रयाः प्रमाणत्वसमर्थनम
35
[सामग्रथाः साधकतमत्वोपपादनम्] यत्तु 'किमपेक्षं सामग्रयाः करणत्वमिति-तत् अन्तर्गतकारकापेक्षमिति ब्रूमः। कारकाणां धर्मः सामग्री न स्वरूपहानाय तेषां कल्पते ; साकल्यदशायामपि तत्स्वरूप प्रत्यभिज्ञानात् ॥
प्रत्येकापेक्षया सामग्री भिन्ना ? उताभिन्ना?] ननु समग्रेभ्यः' सामग्री भिन्ना चेत् कथं पृथङ्नोपलभ्यते ? अभेदे तु सर्वकारकाणि करणीभूतान्येवेति कर्तृकर्मव्यवहारोच्छेदप्रसङ्गः-मैवम्-समग्रसन्निधानाख्यधर्मस्य प्रत्यक्षमुपलम्भात् ।
___ करणत्वं-साधकतमत्वम् । अन्तर्गतेति । सामग्री नाम यावरकारणसमुदायः। करणत्वं च तदन्तर्गतप्रत्येककारकापेक्षमित्यर्थः। ननु अन्वयव्यतिरेकवशात् सामग्रया: करणत्वावधारणेऽपि प्रत्येककारकसत्वे कार्यानुत्पादेन व्यमिचारात् प्रत्येकं कारकाणां कारणत्वासंभवेन न तदपेक्षः अतिशयः सामग्रया वक्तं शक्य इत्यत्राहकारकाणामिति। अयं भावः समग्राणां भावः बलु सामग्री। एवञ्च कारकाणां समुदायविशेषः सामग्री। समुदायश्च समुदाय्यनतिरिक्तः। ततश्च समुदायेषु विद्यमानो धर्मः न हि समुदायिनां कारणत्वं हन्ति । तथा सति प्रत्येकं कारणत्वाभावेन समुदितस्यापि कारणत्वं न स्यात् । किञ्च प्रत्येकं कारणत्वस्यैवाभावे तेषां कारकत्वमेव न स्यात्, कार्यनिर्वर्तकस्यैव कारकत्वात् । ननु प्रत्येक कारकाणां कार्यव्यभिचारात् कथं तेषां कारणत्वावधारणमिति चेत्, लोक एव प्रष्टव्यः। पामरोऽपि हि तन्तूनां प्रत्येकं सतामपि पटकारणत्वं प्रत्येति। अतश्च यत्सत्त्वे यत्सत्वं, यदभावे यदभावः इति सहचारग्रहः सर्वानुभवसिद्धः। न हि तत्र यन्मात्रसत्वे यत्सत्वमित्यन्वयः। अतः प्रत्येकमपि कारणत्वं वर्तत एवेति॥ . . समुदायसमुदायिनार्भेदाभेदं विकल्प्य दूषयति-नन्विति । करणीभूतान्येवेति । सामग्रयाः करणत्वस्योपपादितत्वात् कारकाणां तदमिन्नत्वे कर्तृकर्मकारकादीनामपि करणकारकत्वापत्तिरितीतरकारकोच्छेदप्रसङ्ग इत्यर्थः। समुदायसमुदायिनो_लक्षण्यं वर्तत एवेत्यभिप्रायेण समाधत्तेमैवमित्यादि । ननु तर्हि तन्तुपटयोरिव यदि भेदस्तदाऽपसिद्धान्त इत्याशङ्कायां
HALHAREL
___1किमपेक्ष्य-क.
तत्वरूप-ख.
असमग्रेभ्य:-क.