________________
34 प्रमाणपरीक्षा
न्यायमञ्जरी तस्मात् फलोत्पादाविनाभाविस्वभावत्वमवश्यतया कार्यजनकत्वमतिशयः। स च सामग्रयन्तर्गतस्य न कस्यचिदेकस्य कारकस्य कथयितुं पार्यते। सामग्रघास्तु सोऽतिशयः सुवचः। सन्निहिताचेत् सामग्री संपन्नमेव फल मिति सैवातिशयवती॥
[प्रमातृप्रमेययोः साधकतमत्वाभावान करणत्वम् | ननु मुख्ययोः प्रमातृप्रमेययोरपि तदविनाभावित्वमतिशयोऽ. स्त्येव, प्रमितिसम्बन्धमन्तरेण तयोस्तथात्वाभावात्। प्रमिणोतीति 'प्रमाता भवति, प्रमीयत इति च प्रमेयम्-सत्यमेतत्-किन्तु साकल्यप्रसादलब्धप्रमितिसम्बन्धनिबन्धनः प्रमातृप्रमेययोर्मुख्यस्वरूपलाभः। साकल्यापवये प्रमित्यभावात् गौणे प्रमातृप्रमेये । संपद्यते। एवञ्च साकल्यमन्तरेण यदि प्रमितिरवकल्पेत भवेद्य भिचारः, न त्वसौ तथा दृश्यते इति प्रमित्यन्यभिचारात् साकल्यमेव सातिशयमिति तमबर्थयोगात् तदेव करणम् ॥ ___निष्कृष्टमतिशयस्वरूपं प्रदर्शयति-फलोत्पादेति । फलोत्पादाविनाभाविस्वभावत्वं यत् अवश्यतया कार्यजनकत्वं, तदेवातिशय इत्यर्थः। एकस्य कारकस्येति । एकस्यैव कारकस्येत्यर्थः । सैवातिशयवतीति । सामग्रथा एव फलोत्पादाविनाभाविस्वभावत्वादित्यर्थः ॥'
तदविनाभावित्वमिति । प्रमितिरूपफलाविनाभावित्वमित्यर्थः । प्रमातुः प्रमातृत्वं, प्रमेयस्य प्रमेयत्वं च प्रमितिसम्बन्धनिबन्धनमेवेत्येतदुपपादयति-प्रमिणोतीतीति । तथा च प्रमातृप्रमेययोरपि साधकतमत्वात् करणत्वमापन्नमिति प्रमाणप्रमेयादिविभागः कथमित्यर्थः । साकल्यस्यसामग्र्याः प्रसादात्-सामर्थ्यात् लब्धेत्यर्थः। गौणे इति। प्रमित्याश्रयः प्रमातृपदस्य मुख्यार्थः। यदा च प्रमितिरेव नोत्पमा तदा प्रमित्याश्रयत्वम् आत्मनो न संभवति; यथा सुषुप्तयादौ। तत्र च भूतपूर्वगत्याद्याश्रयणेन प्रमातृत्वं गौणमेव वक्तव्यम् , अपचत्यपि देवदत्ते ‘पाचकोऽयम् ' इत्यादिवदिति ॥
प्रमाता-क.
प्रमितितमबर्थयोगात्-ख.