________________
प्रमाणसामान्यलक्षणम्
आह्निकम् १]
33 कार्य घटमानं अन्यतरव्यपगमे च विघटमानं कस्मै अतिशयं प्रयच्छेत् ? न चातिशयः कार्यजन्मनि कस्यचिदवधार्यते, सर्वेषां तत्र व्याप्रियमाणत्वात् ॥
सन्निपत्यजनकत्वमतिशय इति चेन्न-आरादुपकारकाणामपि कारकत्वानपायात् । ज्ञाने च जन्ये किमसन्निपत्यजनकम्? सर्वेषामिन्द्रियमनोऽर्थादीनामितरेतरसंसर्गे सति ज्ञाननिष्पत्तेः ॥
अथ सहसैव कार्यजनन मतिशयः; सोऽपि कस्याश्चिदवस्थायां करणस्येव कर्मणोऽपि शक्यते वक्तुं-यथा अविरलजलधरधाराप्रबन्धबद्धान्धकारनिवहे बहुलनिशीथे सहसैव स्फुरता विद्युल्लताssलोकेन कामिनीज्ञानमादधानेन तजन्मनि सातिशयत्वमवाप्यते, एवं मितरकारककदम्बसन्निधान सत्यपि सीमन्तिनीमन्तरेण तदर्शनं न संपद्यते, आगतमात्रायामेव तस्यां भवतीति तदपि कर्मकारकमतिशययोगित्वात् करणं स्यात् ॥ कारक्राणां समग्रभावे च निष्पद्यते कार्यम्, अत: कारकसाकल्यापरपर्यायसामग्रयेव करणमिति युक्तम् । प्रत्येकं कारकाणि कारणानि, तत्समुदायश्च करणमिति तु सारम् । कस्मा इति। सकलकारणसमवायान्तराऽन्यस्मै कस्मै इत्यर्थः । कस्यचिदिति। प्रत्येकं तु नापि कारणेन कार्य न जन्यते, सर्वमेलने सति जन्यते ; तदा अतिशयः प्रत्येकं किंनिष्ठ इति न हि निर्णेतुं शक्यत इत्यर्थः ॥
सन्निपत्त्य-व्यापारोपरि भारं निधाय, व्यवधानेनेति यावत् । आरादुपकारकाणां-अद्वारकारणाना। अवान्तरापूर्वद्वारा परमापूर्वफलकं हि प्रोक्षणादि पन्निपत्योरकारकं, साक्षात्परमा पूर्वफलकं च प्रयाजादि आरादुपकारकम् । अयं भावः- व्यापारवत्कारणस्येव करणत्वात् व्यापाररूपातिशय एव तमबर्थः इति न युक्तम ; कारकत्वं हि क्रियावेशमन्तरा न संभवतीति सर्वत्रेद समानम्। चक्रभ्रमणादीनां तु व्यापाराणां साक्षात् घटादिजनकानामपि कारकत्वमविशिष्टमिनि व्यापारावेशमादाय वैलक्षण्यं दुर्वचमेवेति । ज्ञाने तु सुतरां तदुर्वचं वैलक्षण्यमित्याह -शाने चति । इतरेतरेति। संयोगरूपव्यापारस्य द्विनिष्ठत्वेन इन्द्रियमेव करणं, घटादि च कर्म इति नियमासंभव इति भावः ॥
करणस्य--करणत्वेन त्वत्सम्मतस्य। आदधानेनेति । विद्यु लता लोकेनेत्यस्येदं विशेषणम् । तज्जन्मनि-कामिनीप्रत्यक्षोत्पत्तौ ॥
गमे-क. 'मिततर-क. NYAYAMANJARI