________________
32 प्रमाणपरीक्षा
[न्यायमचरी अपि च कस्मिन् विषये सामग्रयाः प्रमाणत्वम् ? प्रमीयमाणो हि कर्मभूतो विषयः सामग्रय'न्तर्भूतत्वात् सामग्रयेवेति करणतामेव यायात् । निरालम्बनाश्चेदानी सर्वप्रमितयो भवेयुः, आलम्बनकारकस्य चक्षुरादिवत् प्रमाणान्तःपातित्वात् ॥
कश्च सामग्रया प्रमेयं प्रमिमीते ? प्रमाताऽपि तस्यामेव लीनः। एवञ्च यदुच्यते 'प्रमाता प्रमाणं प्रमेयं प्रमितिरिति चतसृषु विधासु तत्त्वं परिसमाप्यते' इति, तद्याहन्यते । न च लोकोपि सामग्रथाः करणभावमनुमन्यते तस्यां करणविभक्तिमप्रयुञ्जानः। न ह्येवं वक्तारो भवन्ति लौकिकाः, सामग्रथा पश्याम इति ; किन्तु दीपेन पश्यामः, चक्षुषा निरीक्षामह इत्याचक्षते। तस्मान्न सामग्री कारणम् , अकारणत्वाञ्च न प्रमाणमिति नेदं साधु प्रमाणस्वरूपम् ॥
[सामग्रयाः करणत्वसिद्धान्त:] अत्रोच्यते यत एव साधकतमं करणं, करणसाधनश्च प्रमाणशब्दः, तत एव सामग्रयाः प्रमाणत्वं युक्तम् ; तयतिरेकेण कारकान्तरे कचिदपि तमबर्थसंस्पर्शानुपपत्तेः। अनेककारकसन्निधाने तत्कारणत्वप्रसक्तेरेवाभावे न ह्यतिशय उपपादयितुं शक्येत। विदुषोहि द्वयोः कश्चनातिशेते, न तु विद्वदविदुषोः। प्रत्येकं तु कारणानां साधकत्वमेव नास्ति इति भावः ॥ .. निरालम्बना इति। कर्मकारकस्यापि सामग्रीगोष्टीनिविष्टत्वेन सामग्रथाः करणत्वे कर्मणोऽपि करणत्वप्राप्तया कथं ज्ञानं करणविषयकं स्यादिति ज्ञानं निरालम्बनं प्रसज्येतेत्यर्थः ॥
तस्यामेव-सामग्रयामेव। तथा च प्रमातुरपि करणत्वमेव, न तु कर्तृत्वमिति भावः । यदुच्यत इति । उपोद्घातभाष्यार्थानुवादोऽयम् । अथ प्रतीतिविरोधमप्याह--न च लोकोऽपीति । अकारणत्वादिति । कारणत्वस्यैवाभावे किमुत करणत्वमिति भावः। करणं, भकरणत्वादित्येव वा पाठः ॥
तयतिरेकेण-सामग्रीव्यतिरेकेण । कारकान्तरे- प्रत्येकं कारके । भतिशयपदार्थ विवृण्वन् सामग्रया एव साधकतमत्वमुपपादयति-अनेकेति । निखिलेत्यर्थः । यस्मिन् सति कार्य निष्पद्यते, यस्मिनसति न, तदेव साधकतमं भवति । प्रत्येकं कारकाणां सत्वेऽपि कार्य न हि निष्पयते ।
न्तरीभूतत्वात्-ख. 'सामग्रया:-क.