SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ पातिकम् १] प्रमाणसामान्य लक्षणम् प्रमाणसामान्य लक्षण विभाग सूत्रं त्वयसरप्राप्तत्वादिदानीमेव विवियते प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि॥१-१-३॥ . प्रमाणसामान्यस्वरूपलक्षणाक्षेपः] ___ अत्रेदं तावद्विचार्यते-किं प्रमाणं नाम? किमस्य स्वरूपम्? किं वा लक्षणमिति ? ततः सूत्रं योजयिष्यते ॥ [प्रमाणस्वरूपलक्षणकथनम् ] तदुच्यते-अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धि विदधती बोधाबोधस्वभावा सामग्री प्रमाणम् । बोधाबोधस्वभावा 'सामग्री हिं तस्य स्वरूपम् । अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम् ॥ सामग्रया: प्रमाणत्वाक्षेप:] · · ननु च प्रमीयते येन, तत् प्रमाणमिति करणसाधनोऽयं प्रमाणशब्दः। करणं च साधकतमम् । तमबर्थश्चातिशयः। स चापेक्षिकः। साधकान्तरसंभवे हि तदपेक्षयाऽतिशययोगात् किञ्चित्साधकतममुच्यते । सामग्रयाश्चैकत्वात् तदतिरिक्तसाधकान्तरानुपलम्भात् किमपेक्षमस्या अतिशयं ब्रूमः॥ प्रमाणेत्यादि । सामान्यलक्षणं विभागं च प्रतिपादयत् सूत्रमित्यर्थः ।। अव्यभिचारिणीमित्यादि। भव्यभिचारिणीमिति भ्रमन्यावृत्त्यर्थम् । असन्दिग्धामिति संशयव्यावृत्यर्थम् । अर्थोपलब्धि विदधतीति घटादिव्यावृत्यर्थम् । बोधाबोधस्वभावेति। अबोधरूपं हीन्द्रियं प्रत्यक्षे करणम् । बोधरूपाणि हि अनुमानोपमानशब्दज्ञानानि भनुमित्युपमितिशाब्देषु यथासंख्यं करणानि । कवाक्यं विवेचयति-बोधेत्यादि । ___ 'सामग्री प्रमाणम्' इत्युक्तिमाक्षिपति-नन्विति। सामग्रन्याचे कत्वादिति। निखिलकारकसमुदायस्यैव सामग्रीपदार्थत्वात् सदतिरिकस्य लक्षणं-ख. सूत्रे-स्व. 'हि-ख. 'मस्याति-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy