________________
30
शासप्रवृत्तिप्रकारः
(न्यायमचरी
[उद्देशादीनां क्रमः] तत्रोद्देशः प्रथममवश्यं कर्तव्यः। अनुद्दिष्टस्य लक्षणपरीक्षानुपपत्तेः। सामान्यविशेषलक्षणयोरपि, पौर्वापर्यनियमोऽस्त्येव । अलक्षिते सामान्ये विशेषलक्षणावसराभावात्। 'परीक्षा तु' लक्षणोत्तरकालभाविनीति तत्स्वरूपनिरूपणादेव गम्यते। विभागसामान्यलक्षणयोस्तु नास्ति पौर्वापर्यनियमः। पूर्व वा सामान्य- . लक्षणं ततो विभागः, पूर्व वा विभागः ततस्सामान्यलक्षणमुच्यत.. इति। तदिहोदेशस्तावद्वयाख्यातः। अस्माभिस्तु लक्षणसूत्राण्येव व्याख्यास्यन्ते। परीक्षासूत्रसूचितं तु वस्तु सोपयोगलक्षणवर्णनावसर एव यथाबुद्धि दर्शयिष्यते; न पृथक् परीक्षासूत्रविवरणश्रमः करिष्यते। अत एव प्रथम सूत्रानन्तरं 'दुःखजन्म-' इत्यादि. द्वितीयसूत्रं लक्षणानौपयिकत्वान्नेह विवृतम्। अपवर्गपरीक्षाशेषभूतत्वात्तु तदवसर एव निर्णयिष्यते ॥ द्वितीयाध्यायद्वितीयाहिकोपक्रमभाष्यमिदम् । अयमर्थः—'न चतुष्टमैतिह्यार्थापत्तिसंभवाभावप्रामाण्यात्' इतिसूत्रमवतारयति भाष्यकार:-अयथार्थ इति । 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इति निर्देशो न युक्तः, ऐतिह्यादीनां प्रमाणानां बहूनां सत्त्वात्। अतः पूर्वमुक्त: प्रमाणोद्देशः अयथार्थ:--- न वस्तुस्थित्यनुगुण इति भाष्यस्यार्थ: । एवमाक्षेपे कृप्तेष्वेव तेषामन्तर्भावमुक्ता उपसंहरति भाष्यकारः --तस्मादिति। अत्र बहूनां प्रमाणानां सत्वात चत्वारि प्रमाणानीति विभागो न युक्त इति वक्तव्ये 'प्रमाणोद्देशेः' इति कथनेन, उपसंहारेऽपि तथैव कथनेन च विभागोऽप्युद्देशविशेष एवेति भाष्यकाराशय स्पष्ट इति भावः ॥
नास्तीत्यादि। आद्यस्योदाहरणं-'आप्तोपदेशः शब्दः ''स द्विविधो दृष्टादृष्टार्थत्वात् ' इत्यादि। द्वितीयस्योदाहरणं--'प्रत्युक्षानुमानोपमानशब्दाः प्रमाणानि' इति। अनेन सूत्रेण विभागे प्रतिपादिते सामान्यलक्षणजिज्ञासायो प्रमाणपदावृत्त्या तत्पदं प्रमाणसामान्यपरं व्याख्यातं भाष्ये ॥
___अस्माभिस्त्वित्यादि। अत एवोक्तमुपक्रमे-'तदेकदेशलेशे तु कृतोऽय विवृतिश्रमः' इति। निर्णयिष्यते-णयधोतो रूपमिदम् ॥ .
1 परीक्षा-क.
पूर्व-क.
प्रथम-ख.