________________
आह्निकम् १] शाखाधिकारिनिरूपणम्
65 वस्तुतस्त्वनाद्यविद्यावासनाऽऽरोपितग्राह्यग्राहकादिभेदप्रपञ्च शानमात्रमेवेदमिति किं प्राप्यते? को वा प्रापयति'-इति ॥
' सोऽयं पलायनप्रकार इव प्रस्तूयते-केयं संवृतिनाम ? साऽपि सती, असती वेति विकल्प्यमाना नैव व्यवहारहेतुर्भवति॥ ___अविद्यावासनाकृतश्च न भेदव्यवहारः, किन्तु पारमार्थिक एवेति साधयिष्यते॥
'सांवृत'सन्तानकल्पनायां वा जात्यवयविप्रभृतयोऽपि सांवृताः किमिति नेष्यन्ते? वृत्तिविकल्पादिबाधकोपहतत्वादिति चेत्, सन्तानेऽपि समानः पन्था इति कदाशालम्बनमेतत् । तस्मादसम्भवि दर्शितप्रापकत्वमित्यलक्षणमेतत् ॥
• . [अव्याप्तं च धर्मकीयुक्त प्रमाणलक्षणम्]
अव्यापकं चेदं लक्षणम् । उपेक्षणीयविषयबोधस्याव्यभिचारादिविशेषणयोगेन लब्धप्रमाणभावस्थाप्यनेनासङ्ग्रहात् ॥
पलायनेति । वादाहवादीतस्येति शेषः। यस्तु वास्तविकं प्रमाणमपि नाभ्युपगच्छति स. हि वादेऽनधिकृतः। तथोक्तम्-'सर्वथा सदुपायानां वादमार्गः प्रवर्तते। अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः' (श्लो. वा. 1-1-5 निरा. 128) इति ! अत्र उपायः-स्वपक्षसाधकं प्रमाणम् । तथा च वास्तविकप्रमाणानभ्युपगमप्रकटनं वादानिवृत्तीच्छासूचकमिति भावः ॥
साधयिष्यते-नवमाह्निके ॥ ..
उपेक्षणीयेत्यादि । ज्ञानं हानोपादानान्यतरपर्यवसाय्येवेति न नियमः । सामग्रयधीनं हि ज्ञानं कदाचित प्रवृत्तिनिवृत्त्यपर्यवसायि भवत्येव ; तदेव उदासीनवस्तुविषयकबोध इत्युच्यते । तच्च नाप्रमाण-व्यभिचाराद्यभावात्, कारणदोषाभावाच्च । अतस्तत् प्रमाणमेव। तत्र च अर्थप्रापकत्वापरपर्यायमर्थक्रियाकारित्वरूपाविसंवादाभावादव्याप्तिरिति ॥ . ननु हेयः, उपादेयश्चेति विषयो द्विविध एव । 'परस्परविरोधे तु न प्रकारान्तरस्थितिः' इति न्यायेन, अनुपादेयत्वे हेयत्वमेव स्यात् । अतश्च
1संवृत-क.
किं-क.
चेत-क.
..
NYAYAMANJARI