________________
न्यायमञ्जरी
न्यायमीमांसयोः प्रवृत्तिभेद: - ननु कोऽयमुपेक्षणीयो नाम विषयः? स एपेक्षणीयत्वादेव नोपादीयते चेत् , स तर्हि हेय एव, अनुपादेयत्वादिति-नैतद्युक्तम --उपेक्षणीयविषयस्य स्वसंवेद्यत्वेनाप्रत्याख्येयत्वात् ।।
हेयोपादेययोरस्ति दुःखप्रीतिनिमित्तता । यत्नेन हानोपादाने भवतस्तत्र देहिनाम यत्नसाध्यद्वयाभावात् 'उभयस्याप्य'साधनात् ताभ्यां विसदृशं वस्तु स्वसंविदिन मस्ति नः ॥ उपादेये च विषये दृष्टे रागः प्रवर्तते। इतरत्र तु विद्वेषः, तत्रोभावपि दुर्लभो ।।
[अनुपादेयत्वमात्रान्न हेयत्वम् यत्तु अनुपादेयत्वात् हेय एवेति-तदप्रयोजकम् । न ह्येवं भवति ; यदेतन्नपुंसकं, स पुमान् , अस्त्रीत्वात् ; स्त्री वा नपुंसकं, अपुंस्त्वादिति । स्त्रीभ्यामन्यदेव नपुंसक, नथोपल म्भात् । 'एवमुपेक्षणीयोऽपि विषयो हेयोपादयाभ्यामर्थान्तरं, तथोपलम्भादिति ॥
उदासीनः कश्चन विषयो हेयातिरिक्तो नास्त्येवेति शङ्कते-नन्वित्यादिना। एवं वादिनो मुखमनुभवप्रदर्शनेनाच्छादयति-नैतद्युक्तमित्यादिना। वसंवद्यत्वेन-स्वानुभवसिद्धत्वेन ॥
उभयस्य-हानस्य, उपादानस्य च। ताभ्यां हेयोपादेयाभ्याम् । इतरत्र-हेये। विद्वषः-प्रवर्तत इत्याकर्षः । तत्र-उपेक्षणीये-उदासीने । उभावपि-रागः द्वेषश्च । पथि गच्छतः यत् तृणपर्णादिविषयकं ज्ञानं जायने, न तत्र नरस्येप्सा जिहासा वा भवतीत्यनुभवसिद्धमिदम् ॥
__ यत्त्विति। पथिगतं तृणपर्णादिकं हि पुरुषो नोपादत्ते, किन्तु जहात्येव । अतोऽनुपादेयत्वं हेयत्वरूपमेवेत्यर्थः । अर्थान्तरमिति । उपादित्सया यथोपादानं तथा जिहासया हानं स्यात् । उदासीने जिहासाया अभावात् न तत्र हानपदप्रयोगः। न हि परीक्षायामनुपविष्टः अनुत्तीर्णत्वेन व्यवहियते ॥
उभयस्यापि-ख. 'लभ्यमानत्वात्-ख. यदेतत्-क.