________________
आहिकम् १)
ग्रन्थावतरणम् यदेतत् तृणपर्णादि चकास्ति पथि गच्छतः।
न धीश्छत्रादिवत् तत्र न च काकोदरादिवत् ॥ * तस्मादुपेक्षणीयज्ञानस्य तमप्रापयतोऽपि प्रामाण्यदर्शनात् न प्रापकत्वं तल्लक्षणम् ॥
[अर्थप्रदर्शकत्वमात्रपर्यवसितं अर्थप्रापकत्वं तु ज्ञानस्य व्यमिचरितम् ननु यावान् 'प्रमाणस्य व्यापारः प्रापणं प्रति । तावान् 'उपेक्षणीयेऽपि विषये तेन साधितः ।।
उक्तं हि-राक्षामादेष्ठत्वमेव हन्तृत्वं, प्रदर्शकत्वमेव ज्ञानस्य मापकत्वमिति-मैवम्
— एवं प्रदर्शकत्वं स्यात् केवलं तस्य लक्षणम् । . . तच्च प्रचलदांशुजलज्ञानेऽपि दृश्यते ॥
उपेक्षणीये विषये दृष्टान्तं प्रदर्शयति--यदेतदित्यादि । छत्रादिवत्पथि गच्छतः छत्रं उपादेयं हि भवति। काकोदर:- पर्पः। तंउपेक्षणीयं विषयम् । तल्लक्षणं--प्रमाणलक्षणम् ।।
नन्वित्यादि। प्रमाणभूतस्य संप्रतिपक्षस्यापि ज्ञानस्य अर्थप्रापकत्वंअर्थप्रदर्शकत्वमेव । पुरुषस्तु स्वप्रयत्नादर्थ प्राप्नोति । एवञ्च उपेक्षणीयज्ञानस्यापि स्वविषयप्रदर्शकत्वं वर्तत एवेति नाव्याप्तिः प्रमाणलक्षणस्येति माक्षेपाशय: । प्रमाणस्य अर्थप्रापणं प्रति यावान् प्रदर्शनरूपः व्यापारः तावान् व्यापारः उपेक्षणीयेऽपि विषये तेन उपेक्षणीयज्ञानेन साधित इत्यन्वयः। दण्डयितरि राजनि अपराधिपुरुषहन्तृत्वं नाम वधादेष्टुत्वमात्रं, न तु साक्षात् इन्तृत्वम् । तथा प्रमाणस्य प्रापकत्वं अर्थप्रदर्शकत्वमात्रमेवेत्यर्थः ॥ ___एवमित्यादि । एवं सति तस्य-प्रमाणस्य प्रदर्शकत्वं केवलं लक्षणं स्यात्। न त्वर्थसत्यतायां निर्बन्धः स्यात। तच्च लक्षणं मरीचिकाजलज्ञानेsसदर्थविषयेऽपि समानमिति तत्रातिव्याप्ति: स्यात् । यदि च परंपरयाऽर्थप्राप्तिहेतुत्वमपि विवक्षितं, तदा उपेक्षणीयज्ञानेऽम्यातिः। सेयमुभयतःपाशा रज्जुरित्यर्थः ॥
प्रामाण्यस्य-ख.
उपेक्षणीयज्ञानस्य तमप्रापयतोऽपि प्रामाण्य-ख.