________________
68
ग्रन्थावतरणम्
[न्यायमञ्जरा [अन्ततः स्वलक्षणज्ञानस्यापि प्रामाण्यं दुरुपपादम] ननु तत्र विपरीताध्यवसायजननादप्रामाण्यम् । दर्शनं हि मरीचिस्वलक्षणविषयमेव सलिलाध्यवसायं तु जनयदप्रमाणीभवति । तथा हकमेव दर्शनं अनुकूलेतरविकल्पोपजनन तद नुत्पादभेदात् त्रिधा कथ्यते प्रमाण, अप्रमाणं, प्रमाणं च न भवतीति । नीलज्ञानं हि नीलं प्रति प्रमाणम् ; नीलमिद मित्यनुकूलविकल्पोप: जननात् । नीलाव्यतिरेकि क्षणिकत्वमपि तेन गृहीतमेव । तत्र' तु प्रमाण न भवति, अनुकूलेतर विकल्पानुत्पादात् । स्थैर्य तु तदप्रमाण, विपरीता'ध्यवसाय कलुषितत्वादिति ॥ .
यद्येवमस्मिन् प्रक्रमे सुतरामिदं प्रमाणलक्षणं दुस्स्थमसन्तानाध्यवायः प्रापणं प्रति प्राणस्य व्यापार इति च वर्णितंवानसि। अतश्च यथा मरीचिस्वलक्षणदर्शनमुदसाध्यघसायजन: नादप्रमाणम् , एवं स्वलक्षणदर्शनमपि तद्विपरीतसन्तानाध्यवसाय'जननादप्रमाणीभवेदिति। सन्ताने च काल्पनिके व्यवसिते दृश्याभिमुखः किमिति प्रवर्तते ?
ननु स्वलक्षणविषयं दर्शन प्रमाणभूतं कथपप्रमाणं च भवतीत्याशंकायां आह-तथा हीति। अनुकूलते। अनुकूलविकल्पः, इतरविकल्पश्चेत्यर्थः । हानोपादानप्रयोजकविकल्प इत्यर्थः। नीलं प्रतीति । • स्वलक्षणांश इति यावत्। तन्मते स्वरूपातिरिक्तधर्मानङ्गीकारान नीलाव्यतिरेकी ति , अनुकलेतरेति । अस्थिरमप्यनुकूलं भवति, स्थिरमपि प्रतिकूलं. भवति । अतश्च क्षणिकत्वं नानुकूलप्रतिकूलविकल्पप्रयोजकमिति भावः । विपरीतेति । क्षणिकत्वविपरीनेत्यर्थः। क्षणिकत्वमेव वस्तूनां स्वरूपम् । तथा च एकमेव स्वलक्षणदर्शनं स्वलक्षणांशे प्रमाणं, स्थैर्यांशेऽप्रमाणं, क्षणिकत्वांशे तूदासीनमिति अंशभेदात्प्रामाण्याप्रामाण्ययोर्न विरोध इत्युक्तं भवति ॥
प्रक्रमः--प्रयत्न इति यावत् दृश्याभिमुख इति । स्वलक्षणं वस्तु दृश्यं, विकल्पविषयभूतं तु विकल्प्यम् । आद्यं सत्यं, द्वितीयं मिथ्या। एवञ्च विकल्पविषयस्य सन्तानस्य मिथ्यात्वात, दृश्यस्य च 'क्षणिकत्वेनाति
1 नि-क. 'न-क.
अनुकूल-ख. 'वसाय-ख.
दर्शना-क.