________________
69
आह्निकम् १]
अनुबन्धनिरूपणम् दृश्यविकल्प्यावावेकीकृत्य प्रवर्तते यदि वा।
अविवेकात् प्राप्तिः स्यात् , प्रमाणमपि दूरतस्तस्याः ॥ तस्मान्न प्रापकं प्रमाणम् ॥
[बौद्धामिमतप्रमाणलक्षणदूषणोपसंहारः] अपि च प्राप्त्यप्राप्ती पुरुषेच्छा'मात्रहेतुके' भवतः। अर्थप्रतीतिरेव प्रमाणकार्याऽवधार्यते तस्मात् ॥ मानस्य लक्षणमतः कथयद्भिस्तद्विशेषणं वाच्यम् । न पुनः प्रापणशक्तिः प्रामाण्यं कथयितुं युक्तम् ॥
साङ्ख्यामिमतप्रमाणलक्षणम्] साङ्ख्यास्तु'- बुद्धिवृत्तिः प्रमाणं इति 'प्रतिपन्नाः। विषयाकारपरिणतेन्द्रियादिवृत्त्यनुपातिनी बुद्धिवृत्तिरेव पुरुषमुपरञ्जयन्ती प्रमाणम्। तदुपरक्तो हि पुरुषः प्रतिनियतविषयद्रष्टा संपद्यते ॥ क्रान्तत्वात् दृश्यवस्तूद्देशेन प्रवृत्तिः कथं घटताम् । यदि च दृश्यस्य स्वलक्षणस्य, विकल्प्यस्य सन्तानस्य च भेदाग्रहात् पुरुषः प्रवर्तत इत्युच्यते, तदा अज्ञानात् प्रवृत्तिरुक्ता भवति। न चेष्टापत्तिः। ज्ञानस्यैव प्रवृत्तिहेतुस्वेन तस्याप्रामाणिकत्वादिति । तस्याः -अविवेकात्प्राप्तेः प्रमाणमपि दूरतः ॥ ___अपि चेत्यादि। ज्ञानं ह्यर्थ प्रदर्शयति, न तु प्रापयति । प्राप्त्यप्राप्ती तु पुरुषेच्छादिमूलकप्रयत्नमूलके भक्तः । अतस्तावन्मानं लक्षणं वक्तव्यम् । एवं सति असदर्थप्रकाशकस्यापि मरीचिकाजलज्ञानादेः प्रामाण्यं स्यादित्युक्ते तद्वारणमात्रं वक्तव्यम्--उक्तश्च क्रम: अव्यभिचारिणीमर्थोपलब्धि विदधती प्रमाणमिति । एतत्परित्यज्य प्रापणशक्ति: प्रामाण्यमित्यादिकं कथयितुं न युक्तम् । उक्तदूषणजालावतारादिति सङ्केपः ॥
बुद्धिवृत्तीत्यादि । साम्यावस्थापन्नं गुणत्रयमेव प्रकृतिः। तद्विकारभूतं महत्तत्त्वमेव पुरुषसंसारापवर्गोंदिहेतुः। तच्च महत्तत्त्वं सात्त्विकराजसतामसभेदात् त्रिविधम् । तत्र यदा सत्त्वसमुद्रेकस्तदा बुद्धितत्त्वसंज्ञां लभते
'मात्रके-क.
येते-ख.
सांख्यस्तु-ख. ' प्रतिपन्न: ख.