________________
70
उद्देशसूत्र विवरणम्
[तन्निरास: ]
तदेतदहृदयङ्गमम् -- यो हि जानाति, बुध्यते, अध्यवस्यति, न तस्य तत्फलमर्थदर्शनं, अचेतनत्वान्महतः । यस्य चार्थदर्शनं न स जानाति, न बुध्यते, नाध्यवस्यति इति भिन्नाधिकरणत्वं प्रमाणफलयोः । ज्ञानादिधर्मयोगः प्रमाणं पुंसि न विद्यते, तत्फलमर्थदर्शनं बुद्धौ नास्तीति ॥
अथ स्वच्छतया पुंसो बुद्धिवृत्त्यनुपातिनः । बुद्धेर्वा चेतनाकारसंस्पर्श इव लक्ष्यते ॥ एवं सति स्ववाचैव मिथ्यात्वं कथितं भवेत् । चिद्धर्मो हि मृषा बुद्धौ, बुद्धिधर्मश्चितौ मृषा ॥ साकारज्ञान' वादाच्च' नातीवैष विशिष्यते । त्वत्पक्ष इत्यतोऽमुष्य तन्निषेधन्निषेधनम् ॥ निरसिष्यते च सकलः कपिलमुनिप्रक्रियाप्रपञ्चोऽयम् । तस्मान्न तन्मतेऽपि प्रमाणमवकल्पते किञ्चित् ॥
[ न्यायमरी
प्रकाशहेतुत्वात सत्त्वस्य ; ज्ञानस्यापि तादृशत्वात् । इदं च बुद्धितत्वं इन्द्रियद्वारा बहिर्निर्गत्य विषयमुपसर्पत्, विषयमावृण्वत् विषयाकारपरिणतं भवति । एवं विषयाकारपरिणतेन्द्रियवृत्यनुसारिणी बुद्धिवृत्तिः सन्निहिते स्वच्छे पुरुषे प्रतिफलिता भवति । एवं प्रतिफलिता बुद्धिवृत्तिः प्रमाणम् । इदमेव प्रतिफलनं चिच्छायापत्तिः, पुरुषोपराग इत्यादिशब्दैर्व्यवहियते । एवं प्रतिफलने सति पुरुष: प्रमातेत्युच्यते इति तन्मतसंक्षेपः ॥
प्रमाणफलयोर्व्यधिकरणत्वात् अयः पिण्डौष्ण्यवत् प्रमातृत्वं मृषैव स्यादिति दूषयति-यो हीत्यादिना । य:- महानू - महत्तत्त्वमिति यावत् । तत्फलं - अध्यवसायफलम् । नाध्यवस्यतीत्यनन्तरं - निर्लिप्तत्वात्पुरुषस्य, अध्यवसायादयो हि महदपरपर्यायाया बुद्धेरेव धर्मा इति शेषः ॥
साकारज्ञानवादः – 41-42 पुटयोः निरूपितः ॥
वादवि-ख.