SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आह्निकम् १] विद्यास्थानपदार्थः 71 [प्रमाणसामान्यलक्षणपरीक्षोपसंहारः] तीर्थान्तराभिहितरूपमतः प्रमाणं नैवापवादरहितं प्रतितर्कयामः । तेनामलप्रमितिसाधन मिन्द्रियादि. साकल्यमेव निरवद्यमुशन्ति मानम् ॥ इति प्रमाणसामान्यलक्षणपरीक्षा [प्रमाणविभागः] . तच्चतुर्विधं प्रमाणम् । तदाह 'सूत्र'कार: प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥ इह हि भेदवतः प्रथम सूत्रोद्दिष्टस्य त्रयं वक्तव्यं सामान्यलक्षणं, विभागः, विशेषलक्षणं च । तत्र विशेषलक्षणप्रतिपादकानि चत्वारि सूत्राणि भविष्यन्ति--'इन्द्रियार्थसन्निकर्षोत्पन्नम्....' इत्यादीनि । इह तु विभागसामान्यलक्षणे प्रतिपाद्यते ॥ एकेनानेन सूत्रेण द्वयं चाह महामुनिः । प्रमाणेषु चतुस्लङ्ख्यं तथा सामान्यलक्षणम् ॥ - [प्रमाणेयत्तानिर्णय: : प्रत्यक्षानुमानोपमानशब्दसन्निधाने प्रमाणश्रुतिरुञ्चरन्ती चत्वायेव प्रमाणानीति दर्शयति । तीर्थ-शास्त्रम्। अपवादरहितमित्यनन्तरं इतिकरणं द्रष्टव्यम् , विधेयविशेषणं वा। प्रतितर्कयामा-विभावयामः। अमलप्रमितिसाधनं-अव्यभिचार्यसन्दिग्धार्थप्रमितिसाधनं इन्द्रियादिसाकल्यमेव निरवा मानमिति ॥ इह--अस्मिन् सूत्रे ॥ प्रत्यक्षानमानोपमानशब्दसन्निधाने - प्रत्यक्षानुमानोपमानशब्द - वाचकपदसमुदायसन्निधाने ॥ भाष्य-क. प्रथम-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy