________________
12
चतुर्दशविद्यास्थानानि
न्यायमञ्जरी
ननु न ‘चत्वारि प्रमाणानि' इति सङ्ख्यावचनः शब्दः श्रूयते; नापि प्रत्यक्षादीन्येवेत्यवधारणश्रुतिरस्ति । तत्कुत इयत्तानियमावगमः?
शब्दशक्ति स्वभावादिति ब्रमः। गर्गान् भोजय, यशदत्तदेवदत्तावानय इति विना सङ्ख्या शब्दमेकवारं च भवत्येव द्वित्वादिनियमावगमः। एवमिहापि 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इत्युक्ते सामर्थ्यात् न्यूनाधिकसङ्ख्याव्यवच्छेदोऽधधार्यते-- इत्येवं. तावत् विभागावगमः ॥ ___सामान्यलक्षणन्तु प्रमाणपदादेव समाख्यानिर्वचनसामर्थ्यसहितादवगम्यते ॥
प्रमीयते येन तत् प्रमाणमिति करणार्थाभिधायनःप्रमाणशब्दात् प्रमाकरणं प्रमाण मित्यव'गम्यते । तच्च प्रागेव दर्शितम् ॥
'प्रसिद्धसाधात् साध्यसाधनमुपमानम्' इति च मध्ये साध्यसाधनग्रहणमुपाददानः सूत्रकारः सर्वप्रमाणसाधारणं रूपमिदं परिभाषते-यत्साध्यसाधनस्य प्रमाकरणस्य प्रमाणत्वमिति ॥
न श्रूयते इत्यन्वयः॥
शब्दशक्तिस्वाभाव्यादिति। असति बाधके सर्व वाक्यं सावधारणमिति हि लौकिकाः परीक्षकाश्च । यदि चातिरिक्तं प्रमाणमभिमतं स्यात् तदा 'आदि'प्रभृतिपदं प्रयुज्यतेति भावः । गर्गान्---गर्गगोत्रोद्भवान् । कपिञ्चलाधिकरणन्यायेन त्रयाणामेव बुद्धौ सन्निधानादित्यर्थः ॥
एवमित्यादि। ननु प्रमाणानीति बहुवचनं पञ्चत्वादीनामपि वाचकम् । उत्सर्गतस्तु त्रित्वं प्राप्तम् । एवं सति कथं चतुष्टनियम: ? इति चेत्-उक्तमत्र प्रत्यक्षादिप्रमाणचतुष्टयवाचकपदचतुष्टयसन्निधानात् बहुत्वं चतुष्टे विश्राम्यतीति ॥
समाख्यानिर्वचनम्-योगव्युत्पत्तिनिर्वचनम् ।।
पूर्वोक्तप्रमाणसामान्यलक्षणस्योत्सूत्रत्वशङ्कां निराकरोति --- प्रमीयत इत्यादिना ॥.
सर्वेति। उपमानप्रकरणेऽपि वक्ष्यति-'साध्यसाधनशब्देन करणस्य प्रमाणताम्। ब्रवीति, एतच्च मन्तव्यं सर्वत्र परिभाषितम्' इति ॥
1 स्वाभाव्याव-क. गर्गास्त्रीन्-क. ख. 'वचन-क. 'मव-ख.