________________
आह्निकम् १] प्रमाणसामान्यलक्षणम्
__78 अशुद्धप्रमितिविधायिनस्तु प्रामाण्यं प्रसज्यत इति 'स्मृतिसंशय विपर्ययजनकव्यवच्छेदाय प्रत्यक्षसूत्रात् अर्थोत्पन्नमिति अव्यभिचारीति व्यवसायात्मकमिति च पदत्रयमाकृष्यते, तद्धि प्रमाणचतुष्टय साधारणम् । 'अर्थोत्पन्न पदेन फलविशेषणेन स्मृतिजनकम् , अव्यभिचारिपदेन विपर्ययाधायि, व्यवसायात्मकपदेन संशयजनक प्रमाणं व्युदस्यते ॥
अतश्चैवमुक्तं भवति-अर्थविषयमसन्दिग्धं अव्यभिचारि च ज्ञानं येन जन्यते तत् प्रमाणं---इत्येवमेकस्मादेव सूत्रात् सामान्य लक्षणं विभागश्चावगम्यते ॥ - [एकस्यैव सूत्रस्य विभाग-सामान्यलक्षणपरत्वं युज्यत एवं]
ननु ! एकस्य सूत्रस्य विभागसामान्यलक्षणपरत्वेन वाक्यभेदः । अथैकत्वाच्चैकं वाक्यं युक्तम् ? उच्यते
श्रुत्यर्थद्वारकानेकवस्तुसूचनशालिषु ।
सूत्रेष्वनेकार्थविधेः वाक्यमेदो न दूषणम् ॥ . . प्रमाणान्तरसंस्पर्शशून्ये शब्दैकगोचरे ।
ननु प्रत्यक्षलक्षणसूत्रोक्तानां कथं इतर साधारण्यम् ? इत्याशङ्कायामाहतद्धीति। फलं-ज्ञानम् ॥ . ननु सूत्रमिदं फलभूतज्ञानलक्षणपरम् । एवञ्चैषां विशेषणानां प्रमाणपरत्वं कथं व्याख्यायते- अव्यभिचारिणीं-अर्थोपलब्धि विदधतीति-इति शङ्कायामाह-अतश्चेति । एवञ्च येनेतिपदाध्याहारेणायमों लब्ध इत्यर्थः ॥ ... वाक्यभेदः। विभागार्थमेकवारं पठनीयं, सामान्यलक्षणार्थं च प्रमाणपदं पुनरिति वाक्यभेदः। तथोक्तं जैमिनिना---' अर्थैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विमागे स्यात्' (जै. सू. 2-1-16) इति । प्रकृते च प्रत्यक्षानुमानोपमानशब्दाः; प्रमाणानि इति विभागे पूर्ववाक्यस्योत्तरपदाकाङ्क्षा नियतैवेति एकवाक्यतैव युक्तेति ॥
श्रुतीत्यादि । सूत्राणि खलु श्रुत्युक्तार्थविषयाणि ; न त्वपूर्व किञ्चिद्धोधयितुं प्रवृत्तानि । अतश्च सूत्राणि श्रुतिप्रतिपन्नार्थोपस्थापनद्वारा नानार्थसूचकानि भवन्त्येव । अतश्च श्रुतावेव वाक्यभेदादि दूषणं, न सूत्रे ॥
'संशय-क.. साधनम्-क. अर्थोत्पत्ति-क. . . .