________________
उद्देशसूत्रविवरणम्
न्यायमरी प्रमेये वाक्यमेदादिदूषणं किल दूषणम् । अर्थद्वयविधानं हि तत्रैकस्य न युज्यते ।
[सूत्रे वाक्यभेददोषाभावोपपादनम् ] 'राजा स्वाराज्यकामो वाजपेयेन यजेत' इति गुणविधिपक्षे--- स्वाराज्यं प्रति यागो विधातव्यः, यागं प्रति च वाजपेयगुणो विधातव्यः-इत्येकस्य वाक्यस्य परस्परविरुद्धविध्यनुवादादिरूपापत्तेः अर्थद्वयविधानतिदुर्घटम्॥
इह पुनःप्रमाणान्तरपरिनिश्चितार्थ'सूचनचातुर्यमहाघेषु' सूत्रेषु नानार्थविधानं भूषणं भवति, न दूषणम् । अनेकार्थसूचनादेव सूत्रमुच्यते। एतदेव सूत्रकाराणां परं कौशलं, यत् एकेनैव वाक्येन स्वल्परेवाक्षरैः अनेकवस्तुसमर्पणम्। अध्याहारेण वा तन्त्रेण वा आवृत्त्या वा तमर्थ प्रत्याययिष्यति सूत्रमिदमिति न दोषः।
[विभागसामान्यलक्षणयो: कथने न पौर्वापर्यनियमः] विभागसामान्यलक्षणयोर्विधाने पौर्वापर्यनियमो 'विशेषलक्षणव नास्तीति तन्त्रेण 'युगपदुभयाभिधानमपि न विरुद्धयते। विशेषलक्षणं अनुक्ते सामान्य लक्षणे वक्तुमयुक्तमिति तत्रैष नियमः । सामान्यलक्षणविभागयोस्तु यथारुचि प्रतिपादनम्---आदौ विभागः, ततः सामान्यलक्षणम् ; आदी वा सामान्यलक्षणं, ततो विभागः ।
ननु कुतस्तत्रैव वाक्यभेदो दोष इत्याशंकायामाह अर्थद्वयविधानमिति। यत्र शब्देनैवार्थद्वयमवगन्तव्यं तत्र सकृदुचरितः शब्दः सकृदेवार्थ गमयतीति न्यायात् एकेनैव शब्देन उचरितेन युगपत अर्थद्वयबोधनं न भवेत, अत: अर्थान्तरबोधनाय वाक्यमावर्तनीयमिति भवति वाक्यभेदः । प्रकृते तु सूत्रपदैः प्रमाणान्तरावगतार्थसूचनमेव, न विधानमिति न वाक्यभेद इति भावः ॥
ननु सामान्यलक्षणकथनानन्तरमेव विभागो वक्तन्यः। सामान्यतो विदिते हि विभागशङ्का। एवञ्च एकन सूत्रेणोभयमेकदा कथमवगन्तुं शक्यते ? इत्यत्राह-विभागेत्यादि । समान्यलक्षणविशेषलक्षणयोरेवायं नियमः |
महाघेषु-क. 2 विशेषणलक्षव-ख. 'युगपदभि-क. ' लक्षणविभागयोस्तु-ख.