________________
75
'आह्निकम् १] षोडशपदार्थतत्त्वज्ञानस्योपयोगः सिद्धान्तच्छलवदुभयं वा युगपदेव प्रतिपाद्यते-इति तन्त्रेण आवृत्त्या वा तदुपपादने न कश्चिद्दोष इति ॥
[प्रमाणसङ्ख्याविषयविप्रतिपत्ति: आस्तां तावदिदं सूत्रे तन्त्रावृत्त्यादिचिन्तनम् ।
चतुस्सङ्ख्या प्रमाणेषु ननु न क्षम्यते परैः॥ न्यूनाधिकसङ्ख्याप्रतिषेधेन हि चत्वारि प्रमाणानि प्रतिष्ठा. प्येरन् ; स च दुरुपपादः। तथा हि--प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः। प्रत्यक्षातुमाने द्वे एवेति बौद्धाः। प्रत्यक्षमनुमानमाप्तवचनं चेति 'त्रीणि प्रमाणानीति साङ्ख्याः'। आधिक्यमपि प्रमाणानां मीमांसकप्रभृतयः प्रतिपन्नवन्तः। तत्कथं चत्वार्येव प्रमाणानीति विभागनियमः?
[समाधानम्] उच्यते--अनुमानप्रामाण्यं वर्णयन्तः बार्हस्पत्यं तावत् उपरिष्टात् प्रतिक्षेप्स्यामः । शब्दस्य चानुमानवैलक्षण्यं तल्लक्षणावसर एव वक्ष्यत इति शाक्यपथोऽपि न युक्तः॥ न तु सामान्यलक्षणविभागयोरित्यर्थः । तत्र महर्षिसंवादमेवाह-सिद्धान्तछलवदिति । सिद्धान्तस्य छलस्य च स्वरूपलक्षणपरसूत्रे यथा तथेत्यर्थः । व्यक्तीभविष्यतीदं तत्प्रकरणे ।।
आस्तामित्यादि। इदं तन्त्रावृत्त्यादिचिन्तनमित्यन्वयः। द्वे एवेति बौद्धा इति। यद्यपि वैशेषिका अपि कक्षीकर्तव्याः, तथापि न्यायवैशेषिकयोस्समानतन्त्रत्वस्य सम्मतत्वात्परित्यागः। मीमांसकप्रभृतय इति । प्रत्यक्षानुमानोपमानशब्दार्थापत्तयः पञ्चेति प्राभाकराः। तैस्सहानुपसन्धिरपीति षडिति भाट्टाः। एवं ब्रह्मविवर्तवादिप्रमुखाः प्रभृतिपदेन गृह्यन्ते ॥ - अनुमानेति । उपरिष्टात्तावदनुमानप्रामाण्यं वर्णयन्तः वयं बाईस्पत्यं प्रतिक्षेप्स्याम इत्यर्थः। उपरिष्टात् अनुमानप्रामाण्यसमर्थनेन चार्वाकमतं निरस्तं भविष्यतीति भावः। तल्लक्षणावसरे-शब्दलक्षणविचारावसरे ॥
सांख्या :-क.