________________
16
उद्देशसूत्रविवरणम्
न्यायमक्षरी [अत्र बौद्धानामाक्षेपः, प्रमाणद्वैविध्यनिदानम् नन्वेतत् भिक्षवो न क्षमन्ते
ते हि प्रमेयद्वैविध्यात् प्रमाणं द्विविधं जगुः । नान्यः प्रमाणभेदस्य हेतुर्विषयमेदतः॥ विषयश्च प्रत्यक्षपरोक्षभेदेन स्वलक्षण सामान्यभेदेन वा द्विविध एव। परस्परपरिहारव्यवस्थितात्मसु पदार्थषु तृतीयराश्यनु प्रवेशाभावात् ॥ __तृतीयविषयासत्त्वपरिच्छेद एव कुतस्त्य इति चेत्-प्रत्यक्षमहिम्न एवेति ब्रूमः । नीले प्रवर्तमानं प्रत्यक्षं नीलं नीलतया परिच्छिनत्तीति तावदविवाद एव । तदेव प्रत्यक्षमनीलमपि व्यवच्छिनत्ति, नीलसंविदि तस्याप्रतिभासात् । नीलज्ञानप्रतिभास्य हि नीलं-इति तदितरदनील मेव भवति ॥ . . __ तृतीयमपि राशि अत एव तदपाको त । सोऽपि हि राशिः नीलसंविदि भाति ? न वा ?
ते हीत्यादि । तथोक्तं प्रमाणवार्तिके 'मानं द्विविधं विषयद्वैविध्यात्, शक्तयशक्तितः। अर्थक्रियायाम् ' इति 'अर्थक्रियासमर्थ ग्रत् तदन परमार्थसत् । अन्यत् संवृतिसत् प्रोक्तं, ते स्वसामान्यलक्षणे ' इति च । स्वसामान्यलक्षणेस्वलक्षणं सामान्यलक्षणं चेत्यर्थः । स्वलक्षणं-प्रत्यक्षस्य, सामान्यं-- अनुमानस्य च विषयः। सामान्यमेव सामान्यलक्षणमित्यप्युच्यते ॥
परिच्छेदः-निर्णयः । तस्य-अनीलस्य। ज्ञानं हि विषय तदितरव्यावृत्तमेव गृह्णाति, विषयपरिच्छेदरूपत्वात् ज्ञानस्य । एवञ्च यानि वस्तूनि पुरतो भासन्ते तानि सर्वाणि प्रत्यक्षाणि, इतराणि तु परीक्षाणि जगदन्तर्गतं सर्वमपि एकस्य प्रत्यक्ष वा स्यात् परोक्षं वा। एतद्राशिद्वयानन्तर्भूतं हि किंञ्चिदपि न वक्तुं शक्यमिति प्रत्यक्षपरोक्षरूपद्वैविध्यं सुस्थिरमिति सङ्गहः। नीलमित्यमिलापसोक्र्यात सर्वप्रदर्शनार्थम् ॥ .
'सामान्यभेदे वा-ख
येताव-क.
मिव--ख.