________________
आह्निकम् १] तत्त्वज्ञानपदविग्रहः
77 भाति चेन्नीलमेव स्यात् न प्रकारान्तरं तु तत् । नो चेत् तथाऽप्यनीलं स्यात् न प्रकारान्तरं हि तत् ॥
इदमेव हि नीलानीलयोर्लक्षणम्-यत् नीलज्ञानावभास्यत्वानवभास्यत्वे नाम ॥
एवं च प्रत्यक्षं स्वविषये प्रवृत्तं तं प्रत्यक्षतया व्यवस्थापयति, तत्राप्रतिभासमानं परोक्षतया, तृतीयमपि प्रकारं पूर्ववदेव प्रतिक्षिपतीति ॥
. एवं स्वलक्षणसामान्यव्यतिरिक्तविषयनिषेधेऽप्येष एव मार्गोsनुगन्तव्यः। एवं हि प्रत्यक्षेण स्वविषयः परिनिश्चितो भवति । तदुक्तं--"तत् परिच्छिनत्ति, अन्यत् व्यवच्छिनत्ति, तृतीयप्रकाराभावं च सूचयतीत्येकप्रमाणव्यापारः" इति ॥
अन्यथा विषयस्यैव स्वरूपापरिनिश्चयात् ।
कोपादानपरित्यागौ कुर्युरर्थक्रियार्थिनः ॥ तदुक्तम्-‘अनलार्थ्यनलं पश्यन्नपि न तिष्ठेन्न प्रतिष्ठत' इति ॥
भातीत्यादि। मीलमित्याकारे यद्यत् भासते तत्सर्व नीलमेव खलु स्यात् । अनीलत्वे नीलमित्याकारासंभवात् । धर्मधर्मिभेदस्तु नास्त्येव । यच्च तस्मिन् न भासते तदनीलमेवेति न प्रकारान्तरसम्भवः । प्रकारान्तरं'नीलानीलाभ्यामन्यः प्रकारः । इदमेवेति । विषयाकार: खलु ज्ञानाकारानु
मेयः॥
.. एष एवेत्यादि । प्रत्यक्षेण हि स्वलक्षणमात्रं गृह्यते, सामान्य स्वनुमानविषयः। एवञ्च केचित् स्वलक्षणरूपा:, केचिच्च सामान्यरूपा इति तृतीया विधा वस्तुषु दुर्निरूपेत्यर्थः। अतश्चैकस्यैव प्रमाणस्य प्रवृत्तिः त्रिमुखा भवति। निरूपितं चेदं पूर्वमेव । तत्तद्वस्तुस्वरूपं स्वलक्षणशब्दार्थः । वस्तु
याद्यनुगताकारः सामान्यशब्दार्थः। अन्यथा-एवमेक्स्यैव प्रमाणस्य तथा व्यवच्छेदकत्वानङ्गीकारे। क्व-किमधिकृत्य हेयोपादानन्यवहारौ कुर्युः इत्यर्थः। अर्थक्रियार्थिनः इति कर्तृवाचकं पदम ॥
उक्तमर्थ सदृष्टान्तं संवादयति---- तदुक्तमिति । न तिष्ठेदित्यादि । अर्थपरिच्छेदाभावेन न निवर्तेत; नापि प्रवर्तेतेत्यर्थः॥