SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 78 उद्देशस्त्रविवरणम (न्यायमचरी [निर्विकल्पस्य त्रिमुखत्वाभावेऽपि न दोषः] यद्यपि निर्विकल्पकं प्रत्यक्ष पुरोऽवस्थित'वस्तुस्वलक्षण प्रदर्शनमात्रनिष्ठितल्यापारं अविचारकमेव- तथापि तत्पृष्ठभाविनां विकल्पानामेव च दर्शनविषये कृतपरिच्छेद-तदितरविषयव्यवच्छेदतृतीयप्रकाराभावव्यवस्थापनपर्यन्तव्यापारपाटवमवगन्तव्यम् , इतरथा व्यवहाराभावात् ॥ ___ [उक्तार्थेऽनुमानोपन्यासः एवं च परस्पर परिहारव्यवस्थितस्वरूपपदार्थव्यवच्छेदिप्रत्यक्ष प्रभावावगतविरोधित्वात् प्रत्यक्षेतरविषययोः तृतीयविषयासत्त्वपरि निश्चयेऽनुमानमपि प्रवर्तितुमुत्सहते विरुद्धयोरेकतरपरिच्छेदसमये द्वितीयनिरसनमवश्यं भाति, विरुद्धत्वादेव, शीतोष्णवत् । तृतीयविषयोऽपि तद्विरुद्ध एव, तद्द्धावप्रतिभासमानत्वात् ॥ ननु निर्विकल्पे स्वरूपमात्रमेव भासते, तत्कथं तेन इतरव्यवच्छेदादिकं कर्तुं शक्यमित्याशंकते --यद्यपीत्यादि। अविचारकमेव--अविमर्शात्मकमेव, प्रकारभानाभावादित्याशयः। व्यवहाराभावात् --- व्यवहाराभावप्रसङ्गात्। व्यवहारः खलु ज्ञानाधीनः । . ज्ञानं च ज्ञेयपरिच्छेदः । परिच्छेदश्च नियमेन त्रिमुखः ॥ एवञ्चेत्यादि । परस्पराभावरूपतया व्यवस्थितस्वरूपाणां पदार्थानां न्यवच्छेदकस्य प्रत्यक्षस्य प्रभावात् अवगतविरोधयोः प्रत्यक्षपरोक्षविषययोः, तृतीयविषयासत्वनिश्चये सति वक्ष्यमाणदिशा अनुमानमपि प्रवर्तितमुत्सहत इत्यर्थः । तद्विरुद्ध एवेति । शीतमिति बुद्धौ यत् भासते तत् शीतमेव, यन्न भासते तत् तद्विरुन्द्वमेव, तच्चोष्णं वा स्यात्, अन्यद्वा स्यात्, परन्तु तत्, तद्विरुद्धं चेत्येतदपेक्षया तृतीया कोटिस्तु नास्त्येवेत्यर्थः ॥ . 1 वर्ति-क. लक्षणं-ख. परस्परं-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy