________________
षोडशपदार्थस्य प्रयोगः
[तस्वतदन्यत्वाभ्यां तृतीयो राशिर्नास्त्येव ]
ननु न त्वं द्वितीयमिव तृतीयं कदाचिदपि विषयमग्रहीः ? ग्रहणे हि विषयद्वयवत्' तस्यापि सत्वं स्यात् । अगृहीतस्य च 'विरोधमविरोधं' वा कथं निश्चेतुमर्हसीति ॥
भोः साधो ! नात्र पृथक् ग्रहणमुपयुज्यते, तद्बुद्धयनवभास'मात्रेणैव' तद्विरोधसिद्धेः । विरुद्धं हि तदुच्यते, यत् तस्मिन् गृह्यमाणेन गृह्यते । तदिदमग्रहणमेव विरोधावहमिति न पृथग्ग्रहणमन्वेषणीयम् ॥
आह्निकम् १]
एवं इतरेतरपरिहार व्यवस्थितानामर्थानां न तृतीयो राशि - रस्तीति सर्वथा सिद्धं विषयद्वैविध्यम् ॥
'एवमेव सदस नित्यानित्यक्रमयौगपद्यादिषु प्रकारान्तरपराकरण
79
मवगन्तव्यम् ॥
तत्र प्रत्यक्षे स्वलक्षणात्मनि विषये प्रत्यक्षं प्रवर्तते ; परोक्षे तु सामान्याकारेऽनुमानमिति -
तृतीयराशिन्धवच्छेद इति न वक्तुं शक्यते, सिद्ध्यसिद्धिभ्यां व्याघातादिति शङ्क- नन्विति । त्वं द्वितीयमिव तृतीयं विषयं कदाचिदपि नाग्रहीः किम् ? एवञ्च – अगृहीतस्य विरोधमविरोधं वा कथं निश्चेतुमर्हसि । यदि च तृतीयं कदाचिदग्रही तर्हि ग्रहणे विषयद्वयवत् तृतीयमप्यङ्गीकर्तव्यमेव, गृहीतस्य निषेधायोगात् इत्याशङ्कामिप्राय: ||
समाधत्ते - भोः ! साधो इति । पृथग्ग्रहणं स्वातन्त्र्येण प्रतियोगिविध. यानुयोगिविधया वा ग्रहणम् । विशिष्याग्रहणेऽपि तद्विरुद्धत्वेन तद्व्यतिरिक्तं सर्व क्रोडीक्रियत इत्यर्थः । तथा च तृतीयो राशिर्नास्तीत्युक्ते सर्व राशिद्वयान्तर्भूतमित्येतावन्मात्रं विवक्षितमिति न दोष इति भावः ॥
इति विषयद्वयवेदने प्रमाणद्वयसिद्धे इत्युत्तरश्लोकेनैकं वाक्यम् ।
' विषयवत्-क.
2 विरोधं बाक.
3 मात्रेण - क..