________________
शास्त्रप्रवृत्तिप्रकारः
[न्यायमजरी
प्रमाणद्वयसिद्धे च विषयद्वयवेदने । वद कस्यानुरोधेन तृतीयं मानमिष्यताम् ।
परोक्षे शब्दादीनां नावकाशः न चास्मिन्नेव परोक्षे 'सामान्यात्मनि विषये'ऽनुमानमिव शब्दाद्यपि प्रमाणान्तरं प्रवर्तते इति वक्तुं युक्तम्, 'एकस्मिन् विषये विरोधविफलत्वाभ्यां अनेकप्रमाणप्रवृत्त्यनुपपत्तेः। पूर्वप्रमाणावगतरूपयोगितया तस्मिन् वस्तुनि पुनः परिच्छिद्यमाने प्रमाणमुत्तर'मफलमेव स्यात्। एवं ह्याहुः-'अधिगतमर्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यात्' इति । अन्यरूपतया तु तद्गहणं उत्तरप्रमाणेन 'दुश्शकम, आद्य'प्रमाणविरुद्धत्वादिति ॥
अत एव न संप्लवमभ्युपगच्छन्ति नीतिविदः। एकस्मिन् विषये अनेकप्रमाणप्रवृत्तिः संप्लवः। स च तथाविधविषयनिरासादेव निरस्तः। न च प्रत्यक्षानुमाने परस्परमपि संप्लवेते; स्वलक्षणे - नुमानस्य सामान्ये प्रत्यक्षस्य च प्रवृत्त्यभावात् ।।'
प्रमाणेति । एवं विषयद्वैविध्यानुरोधेन प्रमाणद्वये सिद्धे सति, तृतीयविषयस्याभावेन कीदृशविषयानुरोधेन तृतीयं प्रमाणमङ्गीकर्तव्यमित्यधिक्षेपे ॥
___ नन्वास्तां वि श्यद्वैविध्यम्। अथापि प्रामाण्यद्वैविध्यं कुतः? परोक्षमेव विषयमधिकृत्यानुमा स्येव शब्दस्यापि प्रवृत्तिसंभवादिति शङ्कते-न चेति । समाधत्ते--- एकस्मिन्निति । वैफल्यमुपपादयति- पूर्वेत्यादि । तस्मिन्एकरूपवत्तया पूर्वमेव परिच्छिन्ने वस्तुनि पूर्वप्रमाणावगतरूपयोगितया पुनः परिच्छिद्यमाने सति उत्तरं प्रमाणमफलं स्यात् परिच्छेगाभावादित्यर्थः। ननु पूर्वप्रमाणावगतरूपवत्त्वेन ग्रहणे खलु वैफल्यं, अन्यरूपतया ग्रहणे को दोष इति शङ्कायामाह-अन्यरूपतयेति। क्षणभङ्गवादिनामयं सिद्धान्त: स्मतव्यः ॥
एकत्र प्रमाणद्वयप्रवृत्तौ विरोधमुपपादयति-अत एवेति । तथा. विधेति । प्रमाणद्वयप्रवृत्तियोग्येत्यर्थः ॥
एकत्र-ख.
मफलम-ख. 'दुश्शक्यम् , आदि-ख.
-विषये-क. माने एव-क.