SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ — आह्निकम् १] सौगतसाधितप्रमाणद्वैविध्यम् 81 सम्बन्धग्रहणापेश्नमनुमानं स्वलक्षणे । सजातीय विजातीयव्यावृत्त वर्ततां कथम् ॥ ८० ॥ प्रत्यक्षमपि सद्वस्तुसंस्पर्शनियतव्रतम्। विकल्पारोपिताकारसामान्यग्राहकं कथम् ॥ ८१ ॥ यच्च शब्दोपमानादि प्रमाणान्तरमिष्यते । तदेवं सति कुत्रांशे प्रतिष्ठामधिगच्छतु ॥ ८२ ॥ वस्तु स्खलक्षणं तावत् प्रत्यक्षेणेव मुद्रितम् । ततोऽन्यदनुमानेन सम्बन्धापेक्षवृत्तिना ॥ ८३ ॥ नानाप्रमाणगम्यश्च विषयो नास्ति वास्तवः । तद्वानवयवी जानिरिति वाकभद्रिका ॥ ८ ॥ यदि च प्रत्यक्ष वेषये शब्दानुमानयोरपि वृत्तिरिप्यते तर्हि प्रत्यक्षसंवित्सदृशीमेव 'ते अपि' बुद्धिं 'विदधाताम् । न चैवमस्ति । तदाहुः समानविषयत्वे च जायते सदृशी मतिः। न चाध्यक्षधिया साम्यं एति शब्दानुमानधीः॥ उक्तमर्थमुपपादयति-सम्बन्धेत्यादि । सम्बन्धग्रहणापेक्षमनुमानं : सातीयविजातीयव्यावृत्ते स्वलक्षणे कथं वर्ततां-प्रवर्तताम् ? सदर संस्पर्शनियतवतं-सन्मात्रग्राहि प्रत्यक्षमपि कथं विकल्पारोपिताकारमामान्यग्राहकम् ? एवं सति, यञ्च शब्दोपमानादि प्रमाणान्तरमिष्यते, तत्-प्रमाणान्तरं कुत्रांशे विषये प्रतिष्ठामधिगच्छतु इत्यन्वयः। मुद्रितमिति उत्तरार्धेऽप्यन्वेति, परिच्छिन्नमित्यर्थः। ननु अन्यरूपतया तु तद्गहणं उत्तरप्रमागेन दुश्शकं, आद्यप्रमाणविरुद्वत्वात् ' इत्युफिन युक्ता ; कालभेदेन विरोधपरिहारात । दृश्यते खलु भवयविजातिप्रभृतयः पदार्था: कालद्वयसम्बन्धिनः एकदा प्रत्यक्षाः, अन्यदा चानुमानिका: इति शङ्कायां तादृशं वस्त्वेव नास्तीत्या:-नानेत्यादि। तद्वान्-नानाप्रमाणसम्बन्धी, कालद्वयसम्बन्धी वा॥ प्रत्यक्षसंवित्सदृशीमेव बुद्धि ते अपि-शब्दानुमाने भपि विदधातामित्यन्वयः । 1ते-क. विदध्याताम्-ख. NYAYAMANJARI
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy