________________
82
प्रमाणसं ख्याविचारः
तेजोऽन्यदेव नक्षत्रशशाङ्कशकलादिषु । उद्घाटितजगत्कोशमन्यदेव रवेर्महः ॥
आह च
[ न्यायमञ्जरी
अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः । शब्दात् 'प्रत्येति' भिन्नाक्षो न तु प्रत्यक्ष'मीक्षते ॥
अपि च
अन्यथैवाग्निसम्बन्धात् दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥ तस्मादुक्तेन वर्त्मना विषयद्वैविध्यनिश्चयात् न तृतीयं प्रमाण -- मस्ति, न च संप्लव इति ॥
प्रत्यक्षानुमानयोः प्रमाणत्वाविशेषेऽनि महान् विशेषो वर्तत इत्याहतेज इति । नक्षत्रादितेजः अनुमानस्य, रवेर्महः प्रत्यक्षस्य च दृष्टान्तः । सूर्या लोकमध्यवर्तिनं हि अप्रसक्तसंशयं गृह्णाति । " एवं प्रत्यक्षेण गृहीते स्वलक्षणे न सन्देहावकाशः, प्रकाराणामभानात् । नक्षत्रालोकमध्यवर्ति तु विकल्पितमेव गृह्येतेति भावः ॥
भिन्नाः - अन्धः शब्दात अर्थ यद्यपि अवगच्छति, परन्तु तमर्थ प्रत्यक्षतया नेक्षते । अतो परोक्षोऽर्थः परोक्ष एव, 'प्रत्यक्षश्च प्रत्यक्ष एवेति एकस्मिन्नर्थे न प्रमाणसंप्लव इति । अन्यथैवेत्यादि 1 अग्निसम्बन्धात् दग्धः पुरुषः दाई अन्यथैव केवलदाइशब्दार्थापेक्षया विलक्षणतयैव । मिमन्यते । दाहशब्देन तु दाहरूपः अर्थः अन्यथैव संप्रतीयते । दादशब्दादुपस्थित: दाहरूपः अर्थः न शरीरव्यथादिकं करोति, अग्निसम्बन्धादनुभूतस्तु दाहरूपः अर्थः शरीरमतीव व्वथयतीति महान् भेदः प्रत्यक्षपरोक्षयोरिति भावः । दग्धः पुरुष: दाहं अन्यथैवामिमन्यते, दाहशब्देन दाहरूपार्थस्तु अग्निसम्बन्धापेक्षया अन्यथैव संप्रतीयत इति वा अन्वयः । तस्मादिति । प्रत्यक्षत्वं परोक्षत्वं चाधम । प्रत्यक्षः सदा सर्वस्य प्रत्यक्ष एव । एवं परोक्षोऽपि । यथा नील: सदा सर्वान् प्रति नील एव । भतो विषयद्वैविध्यात् प्रमाणं द्विविधमेवेति ॥
2मीक्ष्यते - क.
' प्रतीति-क.