________________
83
आह्निकम् १]
प्रमाणवैविध्यनिरासः
[सिद्धान्तः अत्राभिधीयतेयत्तावदिदमाख्यायि राश्यन्तरनिगकृतौ । प्रत्यक्षस्यैव सामर्थी इत्येतन्नोपपद्यते ॥ ८५ ॥ पूर्वापरानुसन्धानसामर्थ्यरहितात्मना । भारः कथमयं वोढुं अविकल्पेन पार्यते । ८६ ॥ विकल्पाः पुनरुत्प्रेक्षामात्रनिष्ठितशक्तयः। तेभ्यो वस्तुव्यवस्थायाः का कथा ? भवतां मते ॥ ८७ ॥
अथवा भवतु नाम नीलादावुक्तेन प्रकारेण राश्यन्तरनिराकरणम् । प्रत्यक्षपरोक्ष'भावनिर्णये तु नंष प्रकार योजयितुं शक्यते। विषये हि प्रवृत्तं प्रत्यक्षं विषयस्वरूपमेव परिच्छिनत्ति, न पुनस्तस्य प्रत्यक्षतामपि। नीलमिद मिति हि संवेद्यते, न पुनः प्रत्यक्षभिद मिति। तथा हि-किमिदं विग्यस्य प्रत्यक्षत्वं नाम ? किमक्षविषयत्वम् ? उत अक्षजज्ञानविषयत्वमिति ? तत्राक्षविषयत्वं तावदन्वयव्यतिरेकसमधिगम्यमेव, न प्रत्यक्षगम्यम् । तथाऽऽह भट्टः (औत्पत्तिकसूत्रे अनुमानप्रकरणे श्लो. वा. 60)
___ यद्यपीत्यादिना (पु.७८) प्रदर्शिते समाधाने विद्यमानं दौर्बल्यं प्रदर्शतियत्तावदित्यादिना। भवतां हि मते निर्विकल्पकं असमर्थमेव इतरव्यवच्छेदे। सर्वमपि सविकलाकन्तु अप्रमाणमेवेति केन वस्तुव्यवस्था ? इति सारम् । अविकल्पेन-निर्विकल्पकेन- स्वलक्षणप्रत्यक्षेणेति यावत् ॥
वैभवेनाप्याह-अथवेति । अयं प्रत्यक्षः, अयं परोक्षः इति विषययो: प्रत्यक्षस्वपरोक्षत्वे अनुव्यवसायैकगम्ये ; न तु प्रत्यक्षत्वपरोक्षत्वे विषयासाधारणधौं । एवञ्च अषयत्वं अक्षजन्यज्ञानविषयत्वं वा प्रत्यक्षस्वं, तद्विलक्षण च परोक्षत्वमिति वक्तव्यम् । तद्विषयकहानोपादानाद्यन्वयव्यतिरेकवशादेव इन्द्रियविषयत्वं निश्चेतुं शक्यम् । एवञ्च अक्षविषयत्वं विषयप्रतिभासकाले न गृहीतुं शक्येत । अक्षजन्यज्ञानविषयत्वमपि विषयप्रतिभासकाले न गृहीतुं शक्येत, विषयप्रतिभासकाले ज्ञानस्याप्रतिभापात् । ज्ञानस्य स्वप्रकाशत्व
-
1निर्णये-ख.