________________
प्रमाणसंख्याविचारः
[न्यायमञ्जरी
'न हि 'श्रावणता' नाम प्रत्यक्षेणावगम्यते।
'साऽन्वयव्यतिरेकाभ्यां ज्ञायते बधिरादिषु' इति ॥ अक्षजज्ञानकर्मत्वमपि प्रत्यक्षत्वं तदानीं परिच्छेत्तमशक्यमेव, विषयप्रतिभासकाले तत्प्रतिभासस्याप्रतिभासात्। तद्गहणमन्तरेण च तत्कर्मताग्रहणासंभवात् ॥
[विषयभानदशायां ज्ञानं न भाति] कथं पुनर्विषयग्रहणकाले 'तत्प्रतिभासस्याप्रतिभासः'? नैव युगपदाकारद्वितयं प्रतिभासते ; इदं ज्ञानं, अयं चार्थः इति भेदानुपग्रहात्। एकश्चायमाकारः प्रतिभास्यमानः ग्राह्यस्यैव भवितुमर्हति; न ग्राहकस्येति वक्ष्यते ॥
[ज्ञानाप्रतिभासेऽपि विषयप्रतिभासो युज्यत एव] . ननु च नागृहीतं ज्ञानमर्थप्रकाशनकुशलं भवति । आहुः__ 'अप्रत्यक्षोपलंभस्य नार्थदृष्टिः प्रसिद्धयति, इति ।
निरापपूर्वकं अनुव्यवसायवेद्यत्वं स्थापयिन्यते। एवञ्च प्रत्यक्षत्वपरोक्षत्वयो. विषयधर्मस्वाभावात् तदादाय प्रमाणवैविध्यस्थापनं न शक्यमिति संपिण्डितार्थः । सा-श्रावणता । श्रोत्रेण शब्दे गृह्यमाणे तद्गतं श्रावणत्वं न गृहीतुं शक्यते । किन्तु अयं शब्दः श्रुतो न वा ? इति संशये अन्वयव्यतिरेकाभ्या व निर्णयः। अन्वयव्यतिरेको-प्रवृत्त्यप्रवृत्ती। बधिरादीत्यादिना अनवहितचित्तपरिग्रहः। तत्प्रतिभासस्य-ज्ञानप्रतिभासस्य । तद्ग्रहणं - ज्ञानग्रहणम् ॥
कथमिति। विषयप्रतिभासकाले विद्यमानस्य ज्ञानस्य कुतो न भानमित्यर्थः। अनुभवाभावादिति समाधत्ते-नैवेति । अस्तु आकारद्वयाग्रहणं, स अर्थस्यैवेति कथमित्यत्राह-न ग्राहकस्येति। वक्ष्यतेविज्ञानवादनिरासावसरे ॥
अप्रत्यक्षत्यादि। प्रत्यक्षः उपलंभ: यस्येति बहुव्रीहिः, अनन्तरं नजसमास:। घटादिविषयकोपलम्भः यस्य न प्रत्यक्षः तस्यार्थदर्शनमिति न सिद्ध्यत्येव । ज्ञानस्यैवानवभासे ज्ञानभास्यस्य विषयस्य प्रतिभासासंभवादि.
प्रमाणता-क.
ना-ख.
तज्ज्ञानस्यानवभास:-ख.