________________
86
आह्निकम् १] प्रमाणद्वैविध्यनिरास: 'तदयुक्तम् । अप्रत्यक्षोपलंभस्यैवार्थदृष्टिः प्रसिद्धयति। प्रत्यक्षोपलम्भस्य 'तु नार्थदृष्टिः। उप'लम्भ एव प्रत्यक्ष इति, द्वितीयाकारानवभासात् कुतोऽर्थदृष्टिः? ___यदि च गृहीतं ज्ञानं अर्थ प्रकाशयेत् न द्वयीं गतिमतिवर्तत । तद्धि ज्ञानं . ज्ञानान्तरग्राह्य वा भवेत् , स्वप्रकाशं वा। ज्ञानान्तरग्राह्यत्वे त्वनवस्था, मूलक्षतिकरी चेयमित्यन्धमूकं जगत् स्यात् उपलम्भप्रत्यक्षतापूर्वकार्थप्रत्यक्षवादिनः । नापि स्वप्रकाशं ज्ञानं, शेयत्वातु, नीलपीतादिवत्। विस्तरतस्तु स्वप्रकाशं विज्ञान विज्ञानवादिनिराकरणे निराकरिष्यामः।
न च ज्ञानस्याप्रत्यक्षतायां तदुत्पादानुत्पादयोरविशेषात् अज्ञत्वं सर्वज्ञत्वं वा परिशङ्कनीयम्; विज्ञानोत्पादमात्रेण ज्ञातुः ज्ञातृत्वसिद्धेः। विषयप्रकाशनस्वभावमेव ज्ञानमुत्पद्यत इति कथमुत्पन्नमनुत्पन्नान्न विशिष्यते ? यथा च नीलादिविषयज्ञानोत्पत्त्या अस्य ज्ञातृत्वं तथा सुखादिविषयज्ञानोत्पत्त्या भोक्तृत्वमिति तत्रापि नातिप्रसङ्गः ॥
त्यर्थः । तदयुक्त मत्यादि। आकारद्वयाननुभवात् यदि भासमानः आकार: ज्ञानस्य, तर्हि अर्थप्रतिभातो न स्यादेव। अतः ज्ञानभानशून्यनादशायामेवाथभानं भवेदिति सुष्टुक्तं 'अप्रत्यक्षोपलंभस्यैवार्थदृष्टिः प्रसिद्धयति' इति ।
अन्यथा दोषमाह--यदि चेत्यादि। प्रामाणिक्या अनवस्थाया अदोषत्वात् मूलक्षतिकरीति। व्यवहारप्रवृत्तिरूपमूलस्यैव क्षतिकरीत्यर्थः । ननु कथं ज्ञानस्य ज्ञेयत्वम् ? ज्ञानविषयत्वं हि ज्ञेयत्वम् ! एवञ्च मात्माश्रयादिः इति शङ्कायामाह-विस्तरस्त्विति ॥ -विषयेति । तथा च विषयप्रकाशसद्भावाबाविशेषप्रसङ्ग इत्यर्थः । ननु तर्हि सुखादेरपि स्वप्रकाशत्वं न स्यात्। सुखादिकं झुत्पन्नं सत् स्वयं भासत इत्यनुभवसिद्धमिति शङ्कायां तत्रापि सुखादिज्ञानोत्पत्त्यैव सुखादिप्रकाशः इति समाधत्ते-यथा चेति ॥
। प्रत्यक्षो-ख.
उप-ग.
शे-क.