________________
प्रमाणसंख्याविचार:
[न्यायमारी
तस्मात् विषयविज्ञानकाले तद्विशा'ना'ग्रहणात् न तत्कर्मत्वकृतं विषयप्रत्यक्षत्वमवभासते, तदप्रतिभासे च न परोक्षव्यवच्छेदः, न च तृतीयप्रकारासत्त्वसूचनमिति कथं प्रत्यक्षं विषयद्वित्वसिद्धौ प्रमाणम् ?
[विषयद्वैविध्यसाधकानुमानदूषणम्] यच्चानुमानमप्युक्तं विषयद्वयसिद्धये। तत् प्रत्यक्षपरिच्छिन्नतद्विरोधनिबन्धनम् ॥ ८८ ॥. . विगेधवोधसामर्थ्य प्रत्यक्षस्य च दूषितम् । . तदग्रहे च तन्मूलमनुमानं न सिद्धयति ।। ८९ ॥ एवञ्च विषयद्वित्वसाधनानुपपत्तितः। तत्कृतस्त्यज्यतामेष प्रमाणद्वित्वदोहदः ॥ ९०॥ .. • [विषयद्वैविध्यमपि न प्रमाणद्वैविध्यनियामकम् ]
अथ वा सत्यपि विषयद्वैविध्ये, 'सामग्रीभेदात् फलभेदाच्च प्रमाणभेदो भवन् कथमपाक्रियते !
अन्ये एव हि सामग्रीफले प्रत्यक्ष लिङ्गयोः।
अन्ये एव च सामग्रीफले शब्दोपमानयोः ॥ २१ ॥ इति वक्ष्यामः । तेन तद्भेदादपि प्रमाणभेद सिद्धः न द्वे एव प्रमाणे ॥
तद्विज्ञानाग्रहणात्-विषयविषयकविज्ञानाग्रहणात् । तत्कर्मत्वकृतंतादृशविज्ञानविषयत्वकृतम् ॥
___ यच्चानुमानमिति । 'विरुद्धयोरेकतरपरिच्छेदसमये द्वितीयनिरसनं अवश्यं भाति, विरुदत्वादेव' इत्यनुमानमित्यर्थः प्रत्यक्षपरिच्छिन्नेत्यादि। तेन सह विरोधः यत्र प्रत्यक्षेणैव परिच्छिन्नः, यथा वह्नि जलादौ, तत्रैव भवदुक्तरीत्याऽन्यतरपरिशेषः। प्रकृते तु विषयग्रहणकाले प्रत्यक्षत्वादिधर्माणामग्रहणात् तयोर्विरोधोऽपि न गृहीत इति नानुमानप्रवृत्तिरित्यर्थः ॥
पुनरपि वैभवेनाह-अथ वेति । प्रत्यक्षलिङ्गयोः-प्रत्यक्षानुमानयोः । प्राचीनमते ज्ञायमान लिङ्गस्यैवानुमितिकरणत्वात् तथोक्तिः । यथा प्रत्यक्षानुमानयोः प्रमाणत्वाविशेषेऽपि सामग्रीफलयोर्भेदात् भेदः, तथा शब्दोपमाने अपि सामग्रीफलभेदात् भिद्यते एवेति वक्ष्यत इत्यर्थः ॥
'न-ख.