SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 87 आढिकम् १] प्रमाणसंप्लवसाधनम् [साङ्ख्यसम्मतप्रमाणत्रित्वनिरासः] एतेन त्रीणि प्रमाणानीति साङ्ख्यव्याख्याताऽपि तत्सङ्ख्या प्रत्याख्याता; सामग्रीफल भेदेन उपमानस्य चतुर्थप्रमाणस्य प्रतिपादयिष्यमाणत्वात् ॥ . [प्रमाणसंप्लवो न दोषः] यत्पुनः एकस्मिन् विषये अनेकप्रमाणप्रसरं निरस्यता सौगतेन संप्लवपराकरणमकारि-तदपि मतिमोहविलसितम् ; असति संप्लवे अनुमानप्रामाण्यप्रतिष्ठापनानुपपत्तेः॥ न ह्यविज्ञातसम्बन्धं लिङ्गं गमकमिष्यते । सम्बन्धधीश्च सम्बन्धि'द्वयावगतिपूर्विका ॥ ९२ ॥ सामान्यात्मकसम्बन्धिग्रहणं' चानुमानतः। तस्मादेव यदीष्येत व्यक्तमन्योन्यसंश्रयम् ॥ ९३ ॥ अनुमानान्तराधीना सम्बन्धिग्रहपूर्विका। सम्बन्धाधिगतिर्न स्यात् मन्वन्तरशतैरपि ॥ ९४ ॥ ... तेन दूरेऽपि सम्बन्धग्राहकं लिङ्गलिङ्गिनोः । प्रत्यक्षमुपगन्तव्यं तथा च सति संप्लवः ॥ ९५ ॥ सालयव्याख्याता-साङ्खयाभिहितेति यावत् ॥ न हीत्यादि । सम्बन्ध:-व्याप्तिरूप: अनौपाधिकः संबन्धः । अयमर्थ:ग्याप्यत्वेन ज्ञायमानं लिङ्गं हि अनुमि तकरणम्। व्याप्तिश्च सम्बन्धरूपा इत्युक्तम् । सा च द्विनिष्ठा। एवं तादृशसम्बन्धरूपप्रकारविशिष्टत्वात् तत् सामान्यरूपमेव, न तु स्वलक्षणरूपम् । सामान्यं चानुमानस्यैव विषयः । - एतादृशसम्बन्धिद्वयज्ञानं किं अनेनैवानुमानेन गृह्यते ? उत अनुमानान्तरेण ? उत प्रत्यक्षेण? आये - अन्योन्याश्रयः, अनेनानुभानेन सम्बन्धिग्रहणे सत्यनुमानप्रवृत्तिः। अनुमानप्रवृत्त्यनन्तरमेव च सम्बन्धिज्ञानं इति । द्वितीये-अनवस्था। तृतीये - प्रमाणसंप्लवः । यः सम्बन्धी अनुमानेन गृह्यते स एव प्रत्यक्षेणापि ग्राह्य इति प्रत्यक्षानुमानयोरेकविषयत्वात् इति ॥ - 'ग्रहणं-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy