________________
682
मन्नप्रामाण्यपरीक्षा
पापमयरी सम्माकार्यस्य सर्वग्रहसाधारणत्वात् 'प्रह' इतिविभव कर्मकारकसमर्पणमात्रेणापि सार्थक्योपपत्तेः युक्तमेकत्वमविवक्षितमिति कथपितुम्। इह तु 'बर्हिर्देवसदनं दामि' इत्येवमादिवाक्य क्रियमाणऋतूपयोगिद्रव्यादि प्रकाशनस्य' विध्यपेक्षितत्वात् मन्त्रेण स्मृतं *कर्म करोति। तथा क्रियमाणं भभ्युदयकारि भवतीति न यज्ञामप्रकाशनमविवक्षितम् । अतो नोचारणमात्रोपकारिणो मन्त्राः ॥
[केषाश्चित्तु मन्त्राणामुच्चारणमात्रे चारितार्थ्यम्] . जपमन्त्राणां तु 'पायमानी 'जपेत्', 'वैष्णवीं जपेत्" इति विधिनैव तावन्मात्राक्षेपणात् नार्थेन प्रकाशितेन प्रयोजनमिति किं तत्र क्रियते? यत्र तु 'जपेत्' इति विधिन श्रूयते, म तत्र तदर्थः प्रतीयमानः, अपेक्ष्यमाणश्चोपेक्षितुं युक्तः॥
[स्वाध्यायविधेस्स्वर्थज्ञानपर्यन्ताध्ययनपरत्वमेव] मनु ! यदि ‘जपेत्' इति विधेः वैष्णव्यादिषु नार्यः विवक्ष्यते, तर्हि 'स्वाध्यायोऽध्येतव्यः' इति अक्षरग्रहणमात्रविधानात् सर्वस्यैव वेदस्याविवक्षितार्थत्वं स्यात् - 'मैवम् - स्वाध्यायाध्ययन विधेः दृिष्टो हि तस्यार्थः कर्मावबोधनमिति दृष्टार्थत्वेन विवक्षितार्थत्वात् । एतच शास्त्रान्तरे (ज.सू. 1-1-1) विस्तरतो निर्णीतम्। इह तु वितम्यमानं अस्माकमवान्तरविचारवाचालतामाविष्करोतीति न प्रतम्यते ।
[मन्त्राणामर्थविवक्षाऽस्त्येव] यस तदर्थविनियोगोपदेशादिति अविवक्षितार्थत्वमुक्तम्-- तत्र 'उरु प्रथा उरु प्रथस्व' (वा. सं. १-२२) इति लिलादेव प्रथनसत्त्वेऽपि विषयस्ष्टया पात्रबहुत्वात् एकवचनमविवक्षितमिति (जै. सू.३-१-७) सिदान्तितम् ॥ *कर्म-पहिस्सादनादिकम् ॥
राष्टफलकल्पमाया अभ्याम्यत्वात् मध्ययनस्यार्थज्ञानपर्यन्तस्वं साधितम् (जै. स. 1-1-1)॥
1 क्रियमाण-ख.
प्रकाशनं तस्य-ख.
जपेत-ख. 'एतच-ख.