________________
680
मन्त्रप्रामाण्यपरीक्षा
न्यायमञ्जरी
वाक्यक्रमनियमाञ्चाविवक्षितार्थान मन्त्रानवगच्छामः । नियतपदक्रमा हि मन्त्राः पठ्यन्ते । यद्यर्थप्रतिपादनेनोपकुर्युः, नियतक्रमाश्रयणमनर्थकं स्यात , कमान्तरेणापि तदर्थावगमसंपत्तेः ।
[मन्त्राणामर्थविवक्षाऽपि क्वचित् न संभवति] इतश्चाविवक्षितार्था मन्त्राः। अविद्यमानार्थप्रकाशिनो हि केचिद्दश्यन्ते। यथा 'चत्वारि शृङ्गाः त्रयो अस्य पादाः द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा वद्धो वृषभो रोरवीति महो देवो मानाविवेश' (ते. ना. १० -१) इति। न हि चतुःशृङ्गं त्रिपाद विशिरस्कं लप्तहस्तं किश्चिद्यक्षसाधनमस्ति, यदनेन 'प्रकाश्येत '॥
अचेतने चेतनवब्यवहारः विरुद्धः] इतश्चैवम्। अचेतन प्रैषप्रदर्शनात्- 'ओषधे त्रायस्वैनम्' (ते. सं. १-१-२) इति। न ह्योषधिर्बुध्यते-त्राणाय नियुक्ताऽस्मीति। 'शृणोत ग्रावाणः' (ते. सं. १-३-१३) इति चोदाहरणम् । न ह्यचेतनाः प्रावाणः श्रोतुं नियुज्यन्ते ॥
[अर्थविप्रतिषेधश्च क्वचित्] अपि च ' अदितिौरदितिरन्तरिक्षम् ' (ते. भा. १-१३) इति विप्रतिषिद्धमभिवदन्ति मन्त्राः। कथं सैव द्यौः, तदेवान्तरिक्ष भवितुमर्हति ॥
क्वचिन्मन्त्राणामर्थ एव नास्ति] केषाश्चिञ्च मन्त्राणां अर्थो ज्ञातुमेव न शक्यते । ते कथमर्थप्रकाशनेनोपकुर्युः? 3 'अम्यक्सात इन्द्र ऋष्टिः' (ऋ.सं.२-४) इति । 'सृण्येव जरीतुर्फरीतु' (ऋ.सं. ८-६-२) इति । 'इन्द्रः सोमस्य 'काणुका'' (ऋ.सं. ३-३-९१) इति च । तस्मादविवक्षितार्था मन्त्राः ॥
* यशसाधनं--द्रव्य, देवता वा ।। * प्रैषः-नियोग इति वक्ष्यसि (पु. 684)॥
1 प्रकाश्यते-क. 'मत--ख.
अस्य क्षात-ख. 'कारका-ख.