________________
मासिकम् ४] कचिदर्थवादाविधिकल्पनम्
677 दर्शनात् । एवं वेदेऽपि तेषां तथा प्रयोगो भविष्यति। इत्थं च मन्त्रेष्वपि पेन्या गार्हपत्योपस्थानमविरुद्धम् ॥
[परकृतिपुराकल्परूपार्थवादानामपि प्रामाण्यम्] एवं स्तुतिनिन्दास्वरूपास्तावदर्थवादाः विध्येकवाक्यत्वेन प्रमाणम्। 'परकृति'पुराकरूपस्वरूपा अपि तथैव योज्याः ॥ .. [कुत्रचित् अर्थवादैः विधिकल्पनमपि दृश्यते]
कचित्पुनः अर्थवादेनैव कश्चिदंशः पूर्यत इति न तु प्रतीत्यङ्गत्वमेव नस्य, कार्याङ्गत्वमपि भवति । यथा-'प्रतितिष्ठन्ति ह वा य एता रात्रीरुपासते ' (ते.सं. ७-३-१०) इति अश्रूयमाणाधिकारस्य रात्रिसत्रविधेः अधिकारांशोऽर्थवादादेव लभ्यते। यथोक्तं-'फलमात्रेयो निर्देशात्' (जै. स. ४-३-१८) इति । तत्र हि-प्रतिष्ठाकामाः सत्रमासीरन्'-इत्यर्थवादवशात् गम्यते वाक्यार्थः ॥ - *दर्शनात् - अग्निर्माणवकः' इत्यादौ ।। .. इत्थं च-वेदेऽपि गौणप्रयोगसत्वाच्च । इन्द्रपदं रूच्या इन्द्रवाचकमपि, ऐश्वर्यविशेषविवक्षया गार्हपत्यवाचकमपि स्यात् ॥
* परकृतीत्यादि। 'स्तुतिनिन्दा परकृतिः पुराकरुप इत्यर्थवादः' (न्या.सू. २.१.६५) इति सूत्रम् । अर्थवादाश्चतुर्विधाः। तत्र दृष्टान्ता भाष्य एवं प्रदर्शिता:--" स्तुति:--'सर्वजिता वै देवा: सर्वमयजन् सर्वस्याप्तयै सर्वस्य जित्यै सर्वमेव तेनामोति सर्व जयति' (ता.बा. १६-७-.) इत्यादि। अनिष्टफलवादो निन्दा वर्जनार्था-'स एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमो य एतेनानिष्ठाऽन्येन यजते गर्ने पतस्ययमेवैतज्जीयते वा प्रमीयते वा' इत्येवमादि । बन्यकर्तृकस्य न्याहतस्य विधेर्वादः परकृतिः - 'हुत्वा वपामेवाग्रेऽमिबारयन्ति, भय पृषदाज्यं, तदु ह चरकाध्वर्यव: पृषदाज्यमेवाग्रेऽभिधारयन्ति, बने: प्राणा: पृषदाज्यमित्येवमभिदधति' इत्येवमादि । ऐतिहसमाचरितो विधिः पुराकल्प इति-'तस्माद्वा एतेन ब्राह्मणा बहिष्पवमानं सामस्तोममस्तोषन् पोने यज्ञं प्रतनवामहे' इत्येवमादि" ॥
फलं-प्रतिष्ठारूपं इदं भर्थवादवाक्यं विवक्षत्येव, तत्र तत्फलस्य
'पुराकृति-क.ख.
योग्या:-क.