________________
676 अर्थवादानां प्रामाण्यम्
न्वावमबरी 'धूम एवाग्लेर्दिवा ददृशे नाचिरचिरैवाग्नेर्नक्तं दहशे न धूमः' (ते. बा. २-१-२) इति "दरभूयस्त्वाभिप्रायेण फस्नैचित् प्रयोजनाय सायंप्रातहोमदेवतास्तुतय कथ्यते ॥
'न चैतद्विद्मो यदि ब्राह्मणाः स्मः, अब्राह्मणा वा' (गो. मा. ५-११) इति प्रवरानुमन्त्रणप्रशंसाय संशय इव दर्शितः। भवामणोऽपि यजमानः प्रवरानुमन्त्रणेन ब्राह्मणः स्यादिति ॥
_+'कोहि वै तद्वेद, यदभुमिल्लोकेऽस्ति वाम वा (ते.सं. 4-1-1) इति अदृष्टफलं किमपि कर्म स्तोतुमुच्यते ॥
'शोभतेऽस्य मुखं य एवं वेद' (ता. पा. २०-१६-६) इति विद्याप्रशंसैषा शोभत इति शिष्यरुद्वीक्ष्यमाणस्य मुखमिति ॥
'सर्वान् कामानामोति' इति सर्वत्वं प्रकृताऽपेक्षम् । स्तुत्यर्थ चाश्वमेधाध्ययने तत्फलवचनम् ॥
'हिरण्यं निधाय चेतव्यम्' इति स्तुत्यर्थतया दिव्यन्तरिक्षे पृथिव्यां च चयनं प्रतिषिध्यते। अनुपहितहिरण्यायां पृथिव्यां अग्निर्न चेतव्यः, न पुनर्न चेतव्य एव तस्यामिति ॥ ___ आदित्यो यूपः' (नै.ग्रा. २-१-५) 'इति अअने' सति तेजस्तितया यूपस्य आदित्यरूपता स्तुतये कथ्यते ॥
तत्कार्यकारित्वाञ्च यजमानः प्रस्तर उच्यते। न हि मुख्ययैव वृत्त्या लोके शब्दाः प्रवर्तन्ते ; गोण्याऽपि वृत्त्या 'तद्यवहार
* दूरभूयस्त्वेति। दूरस्थैः दिवा धूम एव गृथते रात्रौ तु मर्चिरित्य. स्त्यनुभवः ॥
को हीति। अत्रानवश्लूप्तिसूचनं च विप्रकृष्टकासफलत्वात् ॥ तस्यां--पृथिन्याम् ॥ अञ्जने-घृतेन लेपने ॥
इत्थमनने-ख.
व्यवहार-ख.