________________
674
अर्थवादानां प्रामाण्यम्
[न्यायमधरी
[अर्थवादैः स्तुतिप्राप्तिप्रकारः] अत एव च 'सोऽरोदीत्' इत्येवमादिभ्यः ‘न रोदितव्यम् इत्यादिविधिकल्पन मिष्यते। मुधैव पूर्वपक्षिणा तदाशतितम् । विध्यन्तरेणैकवाक्यत्वं हि प्रत्यक्षमिहोपदिश्यते। * 'बर्हिषि रजतं न देयम्' (तै. सं. १-५-1) इत्यस्य विधेः शेषोऽयं ‘सोऽरोदीत्' इत्यादिः-'रुद्रो रुरोद । तस्य यदश्रु अशीर्यत, तद्रजतमभवत् । यो हि बर्हिषि रजतं ददाति, पुराऽस्य संवत्सरात् गृहे रोदनं भवति' इति। तस्मात् 'बर्हिषि रजतं न देयम्' इति ॥
'प्राजापत्यमजं तूपरमालमेत' (तै.सं. २-१) इत्यस्य विधेः शेषः 'प्रजापतिरात्मनो वपामुदक्खिदत्' इति । वपाहोममाहात्म्यप्रदर्शनार्थमुच्यते--अग्नौ वै प्रगृहीतमात्रायां वपायां अजस्तूपर उदगादिति ॥
'आदित्यः । प्रायणीयश्चरुः' (ते. सं. ६-१-५) इत्यस्य विधेः शेषोऽयं 'देवा वै देवयजनमध्यवसाय दिशोन प्राजानन्' (तै.सं.६-१५) इति'; व्यामोहानामांदिस्यश्च शयिता, यथा दिल्योहस्येति। एवं तत्र तत्र विधिशेषत्वं अर्थवादानां वेदितव्यम् ॥
[मर्थवादानामसत्यार्थकरवनिरासः] कथं पुमरिदमसत्यमेवोच्यते ? 'रुद्ररुदितात् रजतमजायत', 'प्रजापतिहोमसमिद्धादग्नेः अजस्तूपर उद्गात्' इति उच्यतेनेदमसत्यम् , यदस्य वाक्यस्य प्रतिपाद्य, तत्र सत्यार्थमेवेदम् । न चास्य यथाअतोऽर्थः प्रतिपाधः, किन्तु विधेयो निषेध्यो वा कश्चिदर्थः। इहान्याख्याने द्वयमापतति-यश्च वृत्तान्तमानम् , यच कस्मिश्चिदर्थे प्ररोचना द्वषो धा। तत्र वृत्तान्तज्ञानं न प्रवर्तकम्, न निवर्तकमिति प्रयोजनाभावात् अनर्थकमनादरणीयम् । प्ररोचना
* बहि:-यज्ञः॥ प्रायणीय इति इष्टे म (जै. सू. ९-४-१२)॥ अन्वाख्यानं-अर्थवादरूपानुवादवाक्यम् ।।
अनर्थकमिति प्रकृतस्तुतिनिन्दामिप्रायम्। वक्ष्यति च (पु. 677) तयोरपि फलम् ।
। इति स-क, इत्थं स देषी-ख.