________________
आह्निकम् ४
अर्थवादानां प्रयोजनम्
673
[मर्थवादानामावश्यकता] अत एव 'प्रमाणो पयोगित्व मेषामाचक्षते', न प्रमेयोपयोगित्वम् । केवलविधिपदश्रवणे हि न तदाद्रियन्ते यज्वानः। तत्र विधि विभक्तिरवसीदति । तां निमजन्तीमिव अर्थवादजनितकर्मप्राशस्त्यप्रत्ययः उत्तनाति। 'सर्वजिता यजेत' इत्यतः न तथाविधः श्रद्धातिशयो भवति, यथाविधः 'सर्वजिता वै देवाः सर्वमजयन् सर्वस्याप्तयै सर्वस्य जित्यै सर्वमेवैतेन सर्व जयति' (ता.बा. २६-७-२) इत्यर्थवादपदेभ्यः। लोकेऽपि 'इयं गौः क्रेतव्या' इत्यतः न तथा क्रेतारः प्रवर्तन्ते, यथा 'एषा बहुस्निग्धक्षीरासुश्लीला, सापत्या, 'अनघ'प्रजा च' इत्येवमादिभ्यः स्तुतिभ्यः। स्वानुभवसाक्षिकोऽयमर्थः॥
[अर्थवादाश्रवणस्थलेऽपि अर्थवादकल्पनम् ] अत एव केचित् अश्रुतार्थवादकेऽपि विधिवाक्ये तत्कल्पना मिच्छन्ति, यथा कचित् अर्थवादात् विधिकल्पनमिति । यथोक्तम् (तं. वा. १-४-१३)___ 'विधिस्तुत्योः संदा वृत्तिः 1 समानविषयेष्यते' इति । अनधिगम्यमान विधि सम्बन्धाच्च अर्थवादात् विधिरुन्नीयते, न गम्यमानसम्बन्धात् ॥
* अवसीदति-क्लेशसाध्यत्वादिज्ञानेन, न निरङ्कुशा भवति ।
विचित्--'प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति' इत्यादी। विधिः, रात्रिसत्रस्येति शेषः॥
समानेति। यत्र केवलं विधिः, तत्रार्थवादेनापि भाग्यम् । यत्र केवलमर्थवादः, तत्र विधिनापि भाष्यम् ।।
ननु तईि 'वायुर्वै क्षेपिष्ठा देवता' इत्यादावपि विधिः कल्पनीय स्यादित्यत्राह--अनधिगम्यमानेति ॥
विभक्तेः शक्ति-ख. 4 अनव-ख.
1 प्रामाण्यो-ख. माचक्षते-ख. अनधि-ख. "विधिवाक्य-ख.
NYAYAMANJARI
43