________________
672
.
.. अर्थवादानां प्रामाण्यम्
[म्यायनरी
[सार्थवादविधेरेव प्रेरकत्वम्] ननु! 'स्तुत्याऽपि' किं प्रयोजनम् ? 'स्तुतोऽस्तुतश्च *तावानेव सोऽर्थः'-मैवम-सस्तुतिपदे हि वाक्ये स्तुतिपदसहितं विधायक विधायकं भवति ॥
किमिदानीं केवलं लिडादियुक्तं वाक्यं न विधायकमुच्यतेयदि स्तुतिपदानि न श्रृयन्त तत् बादं भवति विधायकम् । एतेषुच सत्सु तत्सहितं तद्विधायकं भवति, न केवलम् ; तथा प्रतीतेः। स्तुतिपदसम्बन्धे सति भिन्नवाक्यता मा भूदिति विधिपदेन स्तुति पदेन च संभूयार्थो विधीयते ; तथाऽवगमात् । अन्यथा हि प्रतीयमानः पदार्थान्वयः त्यज्येत ; वाक्यभेदो वा कल्प्येत। तस्मान्न : स्तुतिपदानामानर्थक्यम् ॥
[अर्थवादवाक्यप्रयोजनाक्षेपः, समाधानं च] ननु ! केवलस्यापि विधिवाक्यस्य सामर्थ्यात् किमर्थ स्तुतिपदानि प्रयुञ्जते ? इति - उच्यते-अपर्यनुयोज्यो जैमिनीयानां मत शब्दः ; अस्माकं च भगवानीश्वरः । उक्त सति प्रतिपत्तारो वयं वेदस्य ; न कर्तारः। प्रतिपत्तौ च क्रमो दर्शितः ॥
[ द्रव्यदेवताथसमर्पकत्वेऽप्यर्थवादानां नानर्थक्यम् ] , एवञ्च यद्यपि द्रव्यदेवतेतिकर्तव्यताविधानद्वारकं अङ्गविधिवदर्थवादवाक्यानां कार्योपयिकत्वं नास्ति; तथापि प्रतीत्यस्त्वं . न निवार्यते॥
* तावानेवेति। न हि स्तुतो गर्दभः अश्वो भवेत् , मस्तुतो वाऽश्व: गर्दभो भवेत् ॥
विधायकं-विधिवाक्यम् ॥ * ईश्वर इति । अपर्यनुयोज्य इत्यस्यानुवृत्तिः ॥ प्रतीति:-विधिवाक्यप्रतिपक्षयागकर्तम्बत्वबुद्धिः॥
1 स्तुत्या-ख.
स्तुतस्तुत्या-क.
नोऽर्थ:-क. 'विधायक-क.
.