________________
आह्निकम् । ‘अर्थवादप्रामाण्यनिरूपणम्
671 : [अर्थवादानामप्रामाण्ये तदृष्टान्तेन वेदसामान्याप्रामाण्यसिद्धिः]
, ननु ! यावत्येव प्रमाणान्तरविरुद्धत्वमुपलभ्यते, तावत्येवाप्रामाण्यमस्तु । सर्वत्र तु कुतस्त्या तदाशका? इति-मैवम् ---- तत्सामान्यात् अन्यत्राप्यनाश्वासः। मीमांसकपक्षे हि अर्थवादरहितकेवलवेदग्रन्था*नुपलम्भात् , तदनुषनेण सर्वत्र सापेक्षत्वमवतरति । नैयायिकमते तु वेदप्रणेतुरीश्वरस्य क्वचित् वितथवादित्वे दृश्यमाने, कथमन्यत्र सत्यवादितायां दृढः प्रत्ययो भवेत् ? इत्यप्रामाण्यं सर्वचेति ॥ . [अर्थवादानां विध्येकवाक्यत्वात्मामाण्यस्थापनम् ]
अत्रामिधीयते-विध्येकवाक्यतयैव भूम्ना तावदर्थवादपदानि पठ्यन्ते-'वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति' (ते.सं. २-१-१) इति । तेषां तदेकवाक्यत्वादेव प्रामाण्यम् । वायुर्वै क्षेपिष्ठा' देवता' इत्यतः यद्यपि क्रिया नावगम्यते, नापि तत्सम्बद्धः किश्चिदर्थः ; तथाऽपि विध्युद्देशेनैकवाक्यत्वं तस्य प्रतीयते । 'भूतिकामः' इत्येवमन्तो विध्युद्देशः। तेनैकवाक्यभूतो 'वायु क्षेपिष्ठा' इत्येवमादेः॥
. [अर्थवादानां स्तुतिरूपत्वम् ] . कथमेकवाक्यभावः? पदानाम् साकाङ्गत्वात् ॥
ननु ! ‘भूतिकामः' इत्येवमन्तेन वाक्येन विधेयं विहितम् । उत्पादितं प्रतिपत्तरनाकालत्वम् कृतश्च शब्दकर्तव्यमिति, 'किमन्येन'-क्षेपिष्ठा'इत्यादिना प्रयोजनम् ?-तदर्थस्यैव स्तुतिरिति ब्रूमः ॥ . * अनुपलंभादिति । विधिवाक्यानि हि अत्यन्तं विरलानि ॥
कश्चिदर्थः-द्रन्यदेवतादिः ॥ *कथमेकवाक्यभाव इत्याक्षेपः। पदानां इत्यादि समाधानम् ।।
$ किमन्येनेति । उक्तार्थानुपयोगिनेत्यर्थः । उक्तेऽर्थे । सर्वोऽपि शालार्थः परिसमाप्त एवेत्याशयः ॥
1 तावत्-क.
देवता-ख.
प्रतीयते-ख.
किमनेन-ख.