________________
अर्थवादप्रामाण्याक्षेप:
[ न्यायमञ्जरी
देवा दिशो नाज्ञासिषुः, अतः अन्योऽपि न जानीयात् इति अशक्योपदेशः ; न हि दिङ्मोहो नाम उपदेशात् कर्तुं शक्यः ॥ न च सर्वस्मादर्थवादात् विधिः कल्पयितुं शक्य इति मध्यमोsपि न सत्पक्षः ॥
*
670
[अर्थवादानां विधिशेषतया प्रामाण्यमपि न ]
नापि तृतीयः पक्षः संभवति - वाक्यान्तरविहित कार्यरूपार्थीपयिकत्वं हि तदुपयोगिद्रव्य देवतादिविधानद्वारकं भवति - यथा अग्निहोत्रं जुहोति' ( तै. सं. १-५ - ९ ) इत्यत्र ' दना जुहोति', 'पयसा जुहोति' इति द्रव्यविनियोग विधेः यदग्नये च प्रजापतये च सायं जुहोति' ( तै. बा. २) इति देवताविधेर्वा । न चायमर्थवादेषु प्रकारः संभवति । न चैभिः 'बीहीनवहन्ति', 'व्रीहीन् प्रोक्षति' इतिवत् erse वा काचिदितिकर्तव्यतोपदिश्यते । तस्मात् न तेषां दौपयिकत्वम् ॥
[प्रवृत्त्युत्तं भनरूपफलमप्यर्थवादानां न समस्ति ].
ननु ! + प्रेक्षावतां प्ररोचनातिशयकरणेन प्रवृत्त्युत्साहमा वहन्तः अर्थवादाः तदुपयोगिनो भविष्यन्ति - नैतदपि सम्यक् प्रवृत्त्युत्साहो fe thषांचिन्मते निरपेक्षशब्द प्रत्ययादेव सिध्यति । अस्मन्मते तु तत्प्रणेतृपुरुषप्रत्ययादिति किं प्ररोचनया ? ' एवंकाम इदं कुर्यात् इत्युक्ते, यस्तत्र न प्रवर्तते स प्ररोचनयाऽपि न प्रवर्तेतैवेति यत्किञ्चिदेतत् ॥
3
तदेवं प्रकारत्रयेणापि अर्थवादपदानामनन्वयात् एकदेशा क्षेपण सर्वाक्षेप एव क्रियत इति अप्रमाणं वेदः ॥
* सर्वस्मादिति । 'वायव्यं श्वतमालभेत भूतिकामो वायुर्वै पिष्ठा 'देवता' ( तै.सं. २-१-१ ) इति अर्थवादस्य विधिशेषत्वं स्पष्टं प्रतीयते । न हि तत्र अर्थवादे पृथग्विधिकल्पनं शक्यमित्यर्थः ॥
+ प्रेक्षावतां-अनुन्मत्तानाम् ||
1 केषाञ्चित्-मीमांसकानाम् । निरपेक्षत्वमेवास्याः प्रामाण्यप्रयोजकमित्युक्तं प्राक् (पु. 435) ॥
१ सर्वाक्षेपः -- निखिलवेदानामपि एतद्दृष्टान्तेनाप्रामाण्याक्षेपः ॥