________________
भाडिकम् ४] अर्थवादानां स्वार्थे प्रामाण्यासंभव: 669 'तरति मृत्यु तरति पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते * यश्चैवं वेद' इति । यदि पूर्णाहुत्यैव सर्वकामावाप्तिः, पशुबन्धयागेनैव सर्वलोकजयः, अश्वमेघवेदनेनैव तत्फलावाप्तिः, तत्किमर्थमन्यकर्मोपदेशः? उपदिष्टान्यपि तानि बहुक्लेशसाध्यानि कर्माणि व्यर्थानि भवेयुः, *अनेनैव लघुनोपायेन तत्फलप्राप्तेर्दर्शनात् ॥ ___ अपि च 'न पृथिव्यामग्निश्चतव्यः नान्तरिक्षे न दिवि' (ते. सं. ५-२-७) इति वेदे चयन निषेध एवात्र भङ्गया भवेत् । दिवि चान्तरिक्षे च तावत् चयनप्रयोग एव नास्ति, किं तनिषेधेन? पृथिवीचयननिषेधार्थ च यद्वाक्यं, तत् चयनप्रतिषेधार्थमेव भवेत् , प्रपृथिव्यधिकरणकस्य चयनस्यानुपपत्तः॥
अपि च यजमानः प्रस्तरः' (. सं. २-६-५), 'आदित्यो यूपः' ते. ब्रा. २-१-५) इत्येवंजातीयकानां प्रत्यक्षविरुद्धार्थाभिधायिनां मर्थवादानां का परिनिष्ठेति । तस्मान स्वरूपपरत्वं तेषामुपपद्यते ॥
[भर्थवादेभ्य एव विधिकल्पनमपि न संभवति] नापि तेभ्य एव कार्यरूपार्थपरिकल्पनं उपपन्नम् , अशक्यत्वात्। 'सोऽरोदीत् यदरोदीत तद्रुद्रस्य रुद्रत्वं' (ते. सं. १-५-१) इत्यत्र कार्य कल्प्यमानमेवं कल्प्येत--रुद्रः किल रुरोद, अतोऽन्येनापि रोदि. तव्यम् इति-तञ्चाशक्यम-प्रियविप्रयोगजनितसन्तापवशेन हि बाष्पमोचनं रोदनमुच्यते । न तत् चोदनोपदेशात् कर्तुं शक्यते ॥
प्रजापतिरात्मनो वपामुश्चिखेद ; तस्मादन्योऽप्येवमुत्खिदेत् मात्मनो वधामिति दुरनुष्ठानोऽयमर्थः। को हि नाम आत्मनो वपामुखि देत् ? कस्य वा वपाहोमे सति समनन्तरमेव ' हुतभुजः' पशुस्तूपर उद्गच्छेत् ? इति ॥ * अनेन-पूर्णाहुत्यादिना ॥ चयननिषेध इति । तथा च चयनविधिविरोधः ॥ अशक्यमिति। रोदनादिकं हि विषयाधीनं, न तु विध्यधीनम् ।। हुतभुज इति पञ्चमी ॥
1 अज:-ख.