________________
अर्थवादप्रामाण्याक्षेपः
[अर्थवादानां स्वार्थे प्रामाण्यासंभव: ]
सर्वथा च प्रमादः । स्वरूपपरत्वे तावत् प्रमाणान्तरविरुद्धादेशात् अप्रामाण्यमेवावतरति, रोदनव पोरखेदनदिङ्मोहादेरर्थस्य * तथात्वे निश्चयाभावात् ॥
668
[ अर्थवादानां विरुद्धार्थप्रतिपादकत्वादप्रामाण्यम् ]
किञ्च 'स्तेनं मनोऽनृतवादिनी वाक्' इत्येवञ्जातीयकानामर्थवादवाक्यानां विस्पष्टमेव प्रमाणान्तरविरुद्धार्थ प्रतिपादकत्वम् । न हि निसर्गत एव सर्वप्राणिनामनृतवादिनी वाक् भवति, स्तेनं वा मनः।
'अपि च ' 'धूम एवाग्नेर्दिवा ददृशे नार्चिः । तस्मादर्चि: रेवतं दृश्यते न धूम:' ( तै. बा. २-१-२ ) इति प्रत्यक्षविरुद्धममि धीयते, नक्तं दिनं द्वयोरपि इन्द्रियार्थसन्निकर्षे सति ग्रहणात् ॥ किञ्च "एतन्न विद्मः यदि ब्राह्मणाः स्मोऽब्राह्मणा वा ( गो. बा. ५ - २१ ) इति ब्राह्मणजातेरुपदेश सहाय प्रत्यक्ष गम्यत्वात् 'तद्विरुद्ध ' एषोऽर्थवादः ॥
5
[म्यायमभरी
शास्त्रविरोधोऽप्यस्ति --' को हि तद्वद यद्यमुहिम लोकेऽस्ति वा नवा (तं. सं. ६-१-१) इति । शास्त्रे स्वर्गादिफलानां ज्योतिटोमादिकर्मणां उपदेशात् केयमनवक्लृप्तिः $ ॥
अपि च गर्गत्रिरात्रब्राह्मणमधिकृत्य श्रूयते - ' शोभतेऽस्य मुखं य एवं वेद' (ता. बा. २० - १६ - ६ ) इति । न हि कस्यचित् एवंविदतः सुखं शोभत इति प्रत्यक्षविरोधः ॥
अन्यकर्मानर्थक्यशंसी च कश्चिदर्थवादो भवति - ' पूर्णाहुत्या सर्वान् कामान् अवाप्नोति', 'पशुबन्धयाजी सर्वान् लोकानभिजयति',
* तथात्वे- रुद्रादिसम्बन्धिरवे ॥
+ द्वयोः - अग्निधूमयोः ॥
+ प्रत्यक्षगस्यत्वादिति । पूर्वमेव (पु. 552 ) प्रतिपादितमिदम् ॥ $ अनवक्लृप्तिः - अनिर्णयः ॥
प्रत्याय - ख.
2 तस्मात् क..
3
अक्षा-क. 1 एतत् क.
5 बिश्य-क.