________________
माहिकम ४]
अर्थवादप्रामाण्याक्षेपः
667
अभ्यासे *फलरहिते हि पौनरुक्तथं दोषः स्यादिह तु न तस्य निष्फलत्वम् । व्याघातानृतपुनरुक्ततादि तस्मात्
वेदस्य श्लथयति न प्रमाणभावम् ॥ १३६॥ इयं च वाक्यार्थविचारणाऽपि प्रामाण्यसिध्यौपयिकीति मत्वा । . चके स्वशास्त्रे मुिनिनेह वेदप्रामाण्यनिर्वाहणदीक्षितेन ॥ १३७॥
[अर्थवादवाक्यानामप्रामाण्याक्षेपः ] ननु ! नाद्यापि वेदस्य भवद्भिनिपुणैरपि । स्वदेहसंभवा दोषाः निखिलाः परि पिञ्जिताः' । १३८ ॥ तथाहि-'सोऽगेदीत् यदरोदीत् तद्रुद्रस्य रुद्रत्वम् ' (तै.सं. १-५-१), 'प्रजापतिरात्मनो वपामुदक्खिदत् । तामग्नौ प्रागृहात् । ततोऽजस्तूपर| उदगात्' (तै.सं. २-१-१), 'देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्' (तै.सं. ६-१-५) इत्येवमादीनामर्थवादानां किं . यथाश्रुतवस्तुपरत्वम् ? उत तेभ्यः कार्यरूपार्थोपदेशपरिकल्पनम् ? उत लिङादियुक्तवाक्यान्तरप्रतिपाद्यमानकार्यरूपार्थोपयिकत्वम् ? इति चिन्त्यम् ॥ ,
* फलरहित इति। लोकेऽपि हि त्वरादिविवक्षया ‘गच्छ गच्छ' इत्याधभ्यासो दृश्यते ॥
+ मुनिना-गौतमेन। सूत्राणि च पूर्वमेव प्रदर्शितानि॥
'भाम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् ' (जै.सू. १-२-१) इत्यायुक्तं विचार प्रकृतानुगुणरीत्योपक्षिपति-नन्वित्यादि । एतत्प्रकरणोदाहतानां श्रुतिवाक्यानामानुपूर्ध्या ग्रन्थकृता नैर्भर्य न स्वीकृतमिति द्रष्टव्यम् ।।
परिपिञ्जिताः--पिजि हिंसायाम् । परिहृता इति यावत् ॥ ॥ तूपरः -- 'अजातशृङ्गो गौः कालेऽप्यश्मश्रा च तूपरौ' इत्यमरः ।।
| यथावतेति। किमेतेषां स्वार्थ एव पर्यवसानम् ? उत तेभ्यो विधिकल्पनम् ? उत विधिवाक्यशेषत्वमिति विकल्पनयार्थः ।।
'पुचिताः -क.