________________
666 वेदप्रामाण्याक्षेपसमाधानम्
न्यायमभरी तस्यैव व्यापकत्वाविशेषेऽपि *व्यवस्थयोपपद्यत इति न कश्चिदत्र विरोधः । तस्मात् सर्वत्र निरवकाशमनृतत्वादिदूषणम् ॥
[हवनवाक्यविरोधपरिहारः] योऽपि हवनकालविधौ व्याघातदोषो दर्शित: (पु. 651)सोऽपि न दोष एव ।।
तत्रानुष्ठानभेदेनो कालत्रितय'चोदना'। यो यस्य चोदितः कालः लङ्घनीयो न तेन सः ॥ १३३॥ . ततश्चान्यतमं कालं अभ्युपेत्यैनमुज्झतः। निन्देति न विरोधोऽत्र कश्चिद्विधिनिषेधयोः ॥ १३४॥
[पुनरुक्तदोषपरिहारः] . अभ्यासे पौनरुक्तयं च कार्यार्थत्वाददूषणम् । .
संपाद्यं पाश्चदश्यं हि सामिधेनीषु चोदितम् ॥ १३५ ।। 'इममहं पञ्चदशारेण वज्रेणापबाधे योऽस्मान् द्वेष्टि यं च वयं द्विष्मः' इति श्रूयते । एकादशसामिधेन्य ऋचस्तु पठ्यन्ते। तत्राभ्यासमन्तरेण पाञ्चदश्यं नावकरूपत इत्येवमवश्यकर्तव्योऽभ्यासः । स चायमनियमेन प्राप्तः वचनेन नियम्यते-प्रथमोत्तमे ऋची त्रिरुञ्चारणीये--इति। तस्मात् तत्प्रयोजनार्थत्वात् न पुनरुक्ततादोषः।
* व्यवस्थया- तत्तद्धर्माधर्माधीमयेति शेषः ।
अनुष्ठानभेदेनेति। न ह्येकोद्देशेन वाक्यत्रयं प्रवृत्तम् , किन्तु भधिकारिभेदेन। अतो न विरोध इत्यर्थः ॥
वचनेन-'त्रिः प्रथमामन्वाह निरुत्तमाम् ' इति वचनेन। तथा च पञ्चदशस्वं प्रासं, तस्य च शत्रुनाशकत्वात् 'एबदशारेण वज्रेण' इत्युक्तिः । इदं च १०-५-८ अधिकरणे चिन्तितम् ।।
'चोदनाव-ख.