________________
664
वेदप्रामाण्याक्षेपसमाधानम्
[न्यायमश्री
*स यागदानहोमादिजन्यो धर्मगिरोच्यते । ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते ॥ १३० ॥
[इतर दार्शनिकरीत्या धर्माधर्मस्वरूपम् ]
कापिलास्तु अन्तःकरणस्य बुद्धेः वृत्तिविशेषं धर्ममाहुः । आईताः पुण्यपुद्गलान् धर्मत्वेन व्यपदिशन्ति । शाक्य भिक्षवः चित्तवासनां धर्ममाचक्षते । | वृद्धमीमांसकाः यागादिकर्मनिर्वर्त्य अपूर्व नाम धर्ममभिवदन्ति । यागादिकमैव + शावरा ब्रुवते । वाक्यार्थ व नियोगात्मा अपूर्वशब्दवाच्यः, धर्मशब्देन च स पचोच्यते इति \ प्राभाकराः कथयन्ति ||
[पुद्गलादिवादानां असामञ्जस्यम् ]
तत्र पुण्य पुद्गल - वृत्तिपक्षयोः कपिलाई गन्धक स्थितयोः तन्मतनिरासादेव निरासः ॥
आत्मनश्च समर्थयिष्यमाणत्वात् तस्यैव वासना, न चेतस इति सौगतपक्षोऽप्ययुक्तः ॥
स्वर्गयागान्तरालवर्तिनश्च स्थिरस्य || निराधार स्थापूर्वस्य निष्प्रमाणकत्वात् जरजैमिनीयप्रवादोऽप्यपेशलः । 'अपि च फलस्य
दुत्पत्स्यमानदशा, यागस्य वा शक्तिः अपूर्व शब्देनोच्यते ॥
अपि च-ग
* सः - संस्कारः ॥
+ वृद्धमीमांसकाः - जैमिनिप्रमुखाः ॥
+ शाबरा इति । 'द्रव्य क्रियागुणादीनां धर्मत्वं स्थापयिष्यते' वा. १-९-२-१३ ) इति वार्तिकम् ||
ई प्राभाकराः --- प्रकरणपञ्चिकायां वाक्यार्थमातृकाप्रकरणे विस्तरेणेदं निरूपितम् ॥
|| निराधार इति । अपूर्वः खलु नात्मधर्मस्तन्मते । आत्मधर्मस्तु अस्भत्सिद्धान्त एव । अपूर्वं स्वतंत्रमेव तन्मते । एतदेवोपपादयश्स्यनन्तर वाक्येन ॥
1 उत्पत्स्यमानदशा- नैयायिकानां प्रागभाव एव सः ॥