________________
पाह्निकम् ४] पौधयोः स्वरूपम्
668 [समग्राङ्गोपसंहारेऽपि कर्मणां वैगुण्यसंभव: ] . यदप्यभ्यधायि-समनाङ्गोपसंहारेण काम्यकर्मप्रयोगात् कुतः कर्मणो वैगुण्यावसर इति-तदप्यसारम्-सर्वाङ्गोपसंहारेण प्रवृ. त्तावपि प्रमादात् असंवेद्यमानवैगुण्यसंभवात। स च विचित्रः *भाष्यकारेण प्रदर्शितः। तस्मात् पूर्वोक्त (पु. 652) पव प्रतिसमाधानमार्गः श्रेयान् ॥
सिद्धान्ते धर्माधर्मस्वरूपनिर्णयः) यत्पुनः पूर्वपाक्षिकेण कथितम्-कालान्तरे कर्माभावात् कुतः फलमिति (पु. 650)-तदपि न सम्यक्
यद्यप्याफलनिष्पत्तः कर्मणो नास्त्यवस्थितिः । तथाप्यस्त्येव संस्कारः पुरुषस्य तदाहितः ॥ १२५ ॥ कर्मजन्यो हि संस्कारः पुंसो बुद्धयादिवगुणः ।
तस्य चाफलसंयोगात् अवस्थितिरुपेयते ॥१२६ ।। .. — यथेन्द्रियादिसंयोगात् आत्मनो बुद्धिसंभवः ।
तथा यागादिकर्मभ्यः तस्य संस्कारसंभवः ॥ १२७ । बुद्धिस्तु भङ्गुरा तस्य संस्कारस्तु फलावधिः। साध्यसाधनभावो हि नान्यथा फलकर्मणोः ॥ १२८॥ . स्मृतिबीजं तु संस्कारः ६ तस्यान्यैरपि मृष्यते ।
तथैव फलसंयोगबीजं सोऽस्य भविष्यति ॥ १२९ ॥
*भाष्यकारेणेति। 'कर्मवैगुण्यं--समीहाभ्रेषः। कर्तृवैगुण्यं - मावि'द्वान् प्रयोक्ता, कपूयाचरणश्च । साधनवैगुण्य-हविरसंस्कृतम्' (ग्या-भा२-१-५९) इत्यादिष्विति शेषः ॥
ननु चित्राया पनियतफलस्वनिराकरणे तदनृतस्वं कथं परिहरणीय. मित्यत्राह-तस्मादिति ॥
*आफलसंयोगात्-इति पदम् ।। तस्य-भारमनः॥ .