SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ४] कर्मविध्यनिराकरणम् 659 * विधिवृत्तमपि इयदेव - यत् । 'सप्रत्यय प्रवर्तनं नाम । तत्र इदमेकामेन कर्तव्यमित्येतावान् लिङर्थः । अपुरुषार्थरूपे व्यापारे प्रवर्तकत्वलक्षणस्वव्यापार निर्वहणमनधिगच्छन् विधिः S अधिकारि विशेषणस्य कामस्य', काम्यमानस्य स्वर्गादेः, भावार्थस्य च यागादेः साध्यसाधन' सम्बन्धमेव अवबोधयति'; न काम्यमानस्य सद्यः, कालान्तरे वा निष्पत्तिमाक्षिपतीति ॥ फलस्वरूपपर्यालोचनया तु सत्यं स्वर्गस्य पारलौकिकत्वमवगम्यते, न तु पश्वादेरनियमः ' ॥ पुरुषेच्छा तु पुरुषेच्छेव, न तया शाखार्थो व्यवस्थापयितुं शक्यः । तस्मात् निष्प्रमाणकं त्रैविध्यम् ॥ [चित्राया: फलकालानियमे कार्या अपि तथैव स्यात् ] यस्तु चित्रादीनामनियतफलत्वे न्याय उक्तः (लो-वा-१-१-५चित्रा - परि- १५ ) 'चित्रादीनां फलं तावत् || क्षीणं तत्रैव जन्मनि ' इत्यादिः स कारयमपि निश्चितैहिकफलायां योजयितुं शक्यः । 6 raratri काय न हि देवो न वर्षति । जन्मान्तरकृता तत्र 'कारीरी किं न' कारणम् १ ॥ १२४ ॥ * विधिवृत्तं विधे: स्वभाव: ॥ + सप्रत्ययं - सश्रद्धम् ॥ --- + अपुरुषार्थेति । पुरुषार्थपर्यवसामि हि शास्त्रम् । शास्त्र – शासनं विधिरेव || 5 अधिकारिविशेषणं - -कामनावतः अधिकारे कामना सम्र विशेषणम् ॥ || क्षीणं, तज्जन्मनियतफलकत्वे इति शेषः । तथा च इदानीमकृतचित्राणामपि पशुदर्शनात् पूर्वजन्मन्यदत्तफलं चित्रादि करूप्यमिति तस्या अनियतकाल फलकत्व सिद्धिरित्यर्थः ॥ 1 4 सत्प्रत्यय-ख. 2 विशेषणस्य - ख. 3 सम्बन्धमाक्षिपति - ख. 1 नियम: -ख. 5 कारीरी किं नु क. 42*
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy