________________
658
वेदप्रामाण्याक्षेपसमांथानम्
(न्यायमजरी
कर्मनिमित्तकः स पशुलाभो' भविष्यति । यथोक्तम्- *वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफल मनुभूय पतन्तः 'ततश्शेषण +विशिष्टदेशश्रुतवृत्तवित्तादियुक्तं जन्म प्रतिपद्यन्ते (गौ-प्र-सू-११-३१)। नैतत् यथाथुतं बोद्धं युक्तम्---
न ह्यन्यफलकं कर्म दातुमीष्ट फलान्तरम्।
साध्यसाधनभावो हि नियतः फलकर्मणाम् ॥ १२३ ॥ तस्मात् समूहापेक्षा शेषवाचोयुक्तियाख्येया-बहूनि हि कर्माणि वर्णा आश्रमाश्च कृतवन्तः। ततः कर्मसमूहात् ज्योतिटोमादिफलं प्रेत्यानुभूयते। ततः शेषेण चित्रादिना कर्मणा विशिष्टं जन्म प्रतिपद्यन्त इत्यर्थः। तस्मात् पूर्वजन्मकृतचित्रादिनिबन्धनः इह जन्मनि पशुलाभः, नाकर्मनिमित्तकः, नान्यकर्मनिमित्तक इत्येवमनियतफलत्वात् चित्रादेरिह जन्मनि फलादर्शनेऽपि नानृतत्वं तचोदनानाम् , जन्मान्तरे हि ता इष्टयः फलं दास्यन्तीति ॥
पूर्वोक्तकर्मत्रैविध्यासंभवसिद्धान्त:] .. ___ अत्रोच्यते-किं वाचनिकमेतत् कर्मणां त्रैविध्यम् ? उत पुरुषे. च्छाधीनम् ? इति ॥
तत्र वचनं तावत् विविधविभागप्रतिपादकं नास्ति‘कारीरी निर्वपेत् वृष्टिकामः', 'ज्योतिष्टोमेन स्वर्गकामो यजेत'', 'चित्रया पशुकामः' इत्येतावन्मात्रश्रवणम् । न ह्यत्र ऐहिकत्वं, पारलौकिकत्वं, अनियतत्वं वा क्वचित् फलस्य पठितम् ॥ ___*वर्णा आश्रमाश्च-मर्शभायजन्त:--तत्तद्वणिनः, तत्तदाश्रमिणश्च । एवमुत्तरत्रापि ॥
+ विशिष्टेति --- उत्समेति यावत् ॥
चित्रयेति । . यजेतेत्यस्यानुवृत्तिः। विधिसम्छायानि ग्रन्थकर्तुरेवेमानि वाक्यानि ॥
शेषेण-ख.
पशुलाभा-ख. वर्णाश्रमाश्व-ख. फल-ख. 5 बहूनि स्व. यजेतेति-ख. पठितव्यम्-ख.