________________
माडिकम् ४] कमैत्रैविध्यपक्षः
667 तत्र कार्यादि तावत् ऐहिकफलमेव । तद्धि सकलजनपद सन्तापकारिणि महत्यवग्रहे प्रस्तूयते । वृष्टिलक्षणं च तत्फलं स्वभावत एव *सकललोकसाधारणम्। आसन्नतयैव तदमिलषणीमिति सद्य एव भवितुमर्हति। वचनानि च तत्र ताश्येव दृश्यन्ते-'यदि वर्षेत्, तावत्येवेर्षि समापयेत्। यदि न वर्षेत् श्वोभूते जुहुयात् '--इति ॥ ___ आमुष्मिकफलं तु कर्म ज्योतिष्टोमादि फलस्वभावमहिम्नेव पारलौकिकं भवति ॥
. स्वर्गो निरुपमा प्रीतिः देशो वा तद्विशेषणः । - भोक्तुं नोभयथाऽप्येषः देहेनानेन शक्यते ॥ १२२ ॥
चित्रादि तु अनियतफलं कर्म, तत्फलस्य पश्वादेः इह वा परत्र वा लोके सम्भवात् ॥
. चित्रादीनां जन्मान्तरीयपश्वादिफलकत्वं युक्तमेव अवश्यं चैतदेवं विज्ञेयम्। तथाहि-अकृतचित्रायागानामपि इह जन्मनि पशवो दृश्यन्ते । ते परिदृश्यमानसेवाप्रतिग्रहादिकारणका एवेति कथ्यमाने किर्मनिमित्तत्वहानेः बृहस्पतिमतानुप्रवेशप्रसङ्गः । कर्मनिमित्तकत्वे तु तेषां पशूनामुपपादकं किं कर्म ? इति निरूपणीयम् न हि ब्रह्मवर्चसादिफलात् कर्मणः पशवो निष्पद्यन्ते । चित्रा च पशुफला इह जन्मनि तेर्न कृतैव । पूर्वजन्मकृता तु तस्मिन्नेव जन्मनि फलं दत्तवतीति नियतैहिकफलाभ्युपगमादिति कुतः पशुसंपत् ? ... ज्योतिष्टोमादिकर्मशेषफलत्वं ऐहिकपश्चादीनां न युक्तम् ]
ननु ! गौतमवचनप्रामाण्यात् पूर्वकृतभुक्तशिष्टज्योतिष्टोमादि__ * सकललोकेति। तस्कर्तृमात्रस्य वृष्टिफलमाक्स्वाभावात् जन्मान्तरीयं वृष्टयादि फलं न कल्पयितुं पाक्यमित्यर्थः ॥
किर्म-प्राचीनं कमा परिश्श्यमानसेवादिमात्रफलकत्वे सर्वत्रैवं प्राचीनकर्मापकापसंभवेन चार्वाकमतप्रवेश: स्यात् ।।
NYAYAMANJARI